________________
सत्प्रतिपक्षसिद्धान्तः।
१
पक्षधर्माहेती व्याप्तिबाधः, प्रकरणसमे तु न व्याप्तिपक्षधर्मताबाधः फलं, नाप्यलिङ्गत्वज्ञानं, व्याप्त्यादिबुद्धिसत्त्वात्। नापि विपरीतबुद्धिः, स्वसाध्यविपरीतेनानियमात् । नापि संशयः, प्रत्येकं काटिद्दयानुप
-
प्रतिपक्षस्य ज्ञानफलकत्वाभावेन तन्निवेशस्य व्यर्थत्वात्, तथाचानेकान्तिक- विरुद्ध-बाधितानां यानि फलानि साध्यसंशय-साध्यविपरौतबोध-स्वधर्मिकसाध्याव्याप्यत्वज्ञानानि तेभ्यो भिन्न ‘अलिङ्गलज्ञान' लिङ्गत्वग्रहविरोधिज्ञानं प्रकृतपक्षधर्मिक-प्रकृतसाध्यव्याप्यप्रकृतहेतमत्त्वग्रहविरोधिज्ञानमिति यावत्, ‘फलमिति पूर्वणन्वयः, तथाच तादृशज्ञानौपयिक यमुपं तदेव प्रकृतहेतोरमिद्धत्वमिति भावः । 'व्याप्तिबाधः' व्याप्यभावज्ञानं, ‘फलमित्यनुषज्यते, तथाच प्रकृतपक्षधर्मत्वे मति प्रकृतसाध्यव्याप्यभावोन्नायकरूपवत्त्वमेव प्रकृतपक्ष-माध्यबाधितत्वं ह्रदोवहिमान् धूमादित्यादिकच न बाधितं किन्त्वमिद्धमेवेति भावः। प्रकृतमनुसरन्नाह, 'प्रकरणसमे विति माध्य-तदभावयोः परामर्शात्मकप्रतिपक्षस्थले वित्यर्थः, 'न व्याप्तीत्यादि, न व्याप्तेः पक्षधर्मत्वस्य वा 'बाधः' विरहज्ञानं, ‘फलमित्यग्रेतनेनान्वयः, 'नाप्यलिङ्गत्वज्ञानमिति, 'अस्लिङ्गत्वस्य' लिङ्गत्वधौविरोयन्तरस्य, ज्ञानमित्यर्थः, 'व्याप्यादौत्यादिना पक्षधर्मत्वस्योपग्रहः, तथाच न बाधिते खरूपामिद्धे वा अस्यान्तर्भावः। 'विपरीतबुद्धिः' माध्याभावानुमितिः, ‘फलमित्यनुषज्यते, 'अनियमादिति व्याय