________________
ce
— तत्त्वचिन्तामणौ मेने, तन्न। साध्य-तदभावयाविरोधेन यथैकज्ञानस्यापरधीप्रतिबन्धकत्वं तथा साध्याभावव्याप्यवत्वस्यापि साध्यविरोधित्वात्तबुझेरपि साध्यधीप्रतिबन्धकत्वात् विरोधिज्ञानत्वस्य प्रतिबन्धकत्वे तन्त्रत्वात्। निबन्धे तु हेत्वाभासानां फलहारकं लक्षणं, अ
'प्रत्येकाद्धौति प्रत्येककोटिव्याप्यवत्ताविषयकज्ञानादौत्यर्थः, 'ज्ञान' प्रत्येककोटिविषयकज्ञानं, 'अर्थात्' कोटिदयविशिष्टबुद्धिमामग्रीसमाजान्, 'न तु प्रत्येक संशयजनकत्वमिति न तु प्रत्येककोटिविषयकज्ञानस्य संशयत्वावच्छिन्नं प्रति जनकत्वं, संशयत्वस्य निश्चयनस्येवार्थसमाजग्रस्तत्वेन कार्य्यतानवच्छेदकत्वादित्यर्थः, तथाच संशयत्वं यस्य कार्य्यतावच्छेदकं तस्मादेव संभयोत्पत्त्यभ्युपगमे प्रत्येककोच्युपस्थितितोऽपि संशयो न स्यादिति भावः । बाधस्य पक्षविशेश्यकसाध्याभावनिश्चयत्वेन न प्रतिबन्धकत्वं तादृशमाध्यवदन्योन्याभावनिस्यस्याप्रतिबन्धकत्वापत्तेः तस्य पृथक्प्रतिबन्धकत्वापत्तेर्वा किन्तु साध्यविरोधिविषयकनिश्चयत्वेनैव प्रतिबन्धकत्वं तच्च पक्षविशेध्यकसाध्याभावव्याप्यवत्तानिश्चयेऽप्यविभिष्टमित्यभिमानेन दूषयति, 'माध्य-तदभावयोरिति, 'प्रतिबन्धकत्वे तन्त्रत्वादिति प्रतिबन्धकतायामवच्छेदकत्वादित्यर्थः । एतचापाततः लाघवादिति शेषः ।
नव्यास्तु सत्यपि तदभावव्याप्यवत्तानिश्चये तगोचराप्रामाण्यजोबान तदुत्तरं बुभुत्सातो वा तदुपनौतभानस्योदयात् न साक्षा