________________
सत्प्रतिपक्षसिद्धान्तः।
८८७
ऽप्यनुमित्यापत्तेरिति वाच्यम्। अधिकबलतया ब्राधेन प्रतिबन्धात् तुल्यबलत्वादनुमितिः स्यादेव सामग्रीसत्वात् । साध्याभावबोधस्य च तत्र. प्रतिबन्धकत्वं न तु तद्बोधकस्य चक्षुरादेः। प्रत्येकं निर्णायकत्वेनावधारितात् कथं संशय इति चेत्, न, प्रत्येकावि ज्ञानमुत्यद्यमानमर्थात् संशया न तु प्रत्येकं संशयजनकत्वमिति
'बाधेऽपौति, माध्यविरोधिविषयकनिश्चयत्वेनैव बाधस्यानुमितिप्रतिबन्धकत्वात् साध्याभावव्याप्यवत्त्वोपस्थितेरनमित्यनुत्पादाप्रयोजकत्वे च व्यभिचारेण तेन रूपेण प्रतिबन्धकत्वासम्भवादिति भावः । 'अधिकबलतयेति पक्षतावच्छेदकावच्छिन्नविशेष्यकसाध्याभावप्रकारकनिश्चयनयेत्यर्थः, 'बाधेन प्रतिबन्धादिति बाधनिश्चयस्यानुमितिप्रतिबन्धकवादित्यर्थः, 'तुल्यबलादिति तादृशसाध्याभावप्रकारकनिश्चयाद्यभावविशिष्टात् साध्याभावव्याप्यवत्तापरामर्शादित्यर्थः, उत्तरत्वं पञ्चम्यर्थः । ननु चक्षुरादिना बाधोत्पत्तिकाले विशिष्टबुड्यनुदयाद्बाधसामग्रौत्वेन चक्षुरादीनामपि प्रतिबन्धकत्वं वाच्यं तच्च विशेषदर्शनतया तत्राप्यविभिष्टमित्यत आह, ‘माध्याभावेति, 'तत्र' माध्यविशिष्टबुद्धौ, तदभावस्य कार्यसहभावेन हेतुतया बाधोत्पत्तिकाले न तदुत्पत्तिरिति भावः । शकते, 'प्रत्येकं निर्णायकत्वेनेति प्रत्येकविषयकानुमितित्वावच्छिन्न प्रति जनकत्वेनेत्यर्थः, 'कथं संशय इति संशयत्वस्य कार्य्यतानवच्छेदकत्वादिति भावः ।