________________
तत्वचिन्तामणौ
संशयजनकत्वात् संशयद्वारा अस्य दूषकत्वं । न च संशयरूपा नानुमितिः बाधंस्येव विरोध्युपस्थितेरनुमितिसामग्रीविघटकत्वेनावधारणात् अन्यथा बाधे
भावः । ननु सत्प्रतिपक्षस्थलेऽप्यनुमित्युत्पादे तत्र कथं दोषव्यवहारमात इत्यत-बाह, 'संशयद्वारेति संशयजनकत्वेन निर्णयविरोधितमति त्यर्थः,(९) 'अस्य' सत्प्रतिपक्षस्य, 'दूषकत्वं' दोषव्यवहारविषयत्वं । न चैवं पक्षतावच्छेदकसामानाधिकरण्येन साध्य-साध्याभावव्याप्यवत्तापरामर्शरूपयोः सत्प्रतिपक्षयोः दोषव्यवहारो न स्यात् पक्षतावच्छेदकावच्छेदेनानुमितिं प्रति पक्षतावच्छेदकावच्छेदेन हेतमत्तापरामर्शस्यैव हेतुतया तयोः संशयजनकत्वासम्भवात् विशेष्यतावच्छेदकावच्छेदेनान्यतरकोटिविषयकज्ञानस्यैव संशयत्वादिति वाच्यं । येन सम्बन्धेन हेतोाण्यता ग्रहौता तेनेव सम्बन्धेन हेतुमत्तापरामर्शस्थानुमितिहेतुतानियमात् पक्षतावच्छेदकमामानाधिकरण्येनानुमितिमिव तदवच्छेदनानुमितिं प्रत्यपि पक्षतावच्छेदकसामानाधिकरण्येन हेतमत्तापरा एव हेतुः यत्र च पक्षतावच्छेदकावच्छेदेनानुमित्युत्पत्तिप्रतिबन्धकबाधादेर्नावतारः तत्र नियमतोऽनुमितेर्दिविधविषयत्वमिष्टमेव इत्यभिप्रायात्। 'बाधस्येवेति माध्याभावनिवयस्येवेत्यर्थः, 'विरोध्युपस्थितेरिति साध्याभावव्याप्यवत्त्वोपस्थितेरित्यर्थः, 'अनुमितिमामग्रौविघटकत्वेन' अनुमित्यनुत्पादप्रयोजकत्वेनेत्यर्थः, 'अन्यथेति तदुपस्थितेरनुमित्यनुत्पादाप्रयोजकत्वे इत्यर्थः, (१) संशयजनकत्वेनेत्यर्थ इति ख, ग ।