________________
सत्प्रतिपक्षसिद्धान्तः।
का निश्चयांनान्तरमन्यतरव्याप्तिसंशयइत्युपजीव्यत्वेमास्य भिन्नत्वात् दूषकतावौजन्तु समबलविरोधिसामग्रौप्रतिबन्धेन निर्णयाजनकत्वं, न तु व्याप्तिपक्षधर्माताविरह एव सडेतोरपि सत्प्रतिपक्षत्वान, एकच व्याप्तिभङ्गज्ञानद्दारा वास्य दूषकत्वं, चक्षुरादेश्च नानुमानेन प्रतिरोधः तदुपस्थितावपि फलतादृशपरामर्शस्यैव व्याप्तिनिश्चयरूपतया व्याप्तिनिश्चयाभावेनान्यथासियसम्भवादिति भावः। ननु विरोधिपरामर्शन ज्ञाप्यमानो व्याप्ति-पक्षधर्माताविरह एव हेतुनिष्ठतया तत्रानुमित्यनुत्पादप्रयोजक इत्यत-वाह, 'न विति न त विरोधिपरामर्शन ज्ञाप्यमानोव्याप्ति पक्षधर्मताविरह एवेत्यर्थः, तत्रानुमित्यनुत्पादप्रयोजकइति शेषः, स्वरूपमड्याप्ति-पक्षधर्मताविरहस्यानुमित्यनुत्पादप्रयोजकले क्वाप्यव्यायापक्षधर्मलिङ्गायाप्यादिभ्रमेणानुमितिर्न स्यात् तो चाप्यमानान्तं विरहविशेषणं, 'सत्प्रतिपक्षत्वादिति विरोधिपरामसत्त्वदमायामनुमित्यजनकत्वादित्यर्थः, 'एकत्र' परामर्शान्तरविषये हेतो, 'अस्य' विरोधिपरामर्शस्य, 'दूषकत्वं' प्रतिबन्धकत्वं. वाकारोऽनास्थायां परमुखनिरीक्षकत्वेन हेत्वाभासत्वायोगात् व्याप्यभावज्ञानस्य साक्षादनुमितिप्रतिबन्धकत्वे मानाभावाञ्चेति ध्येयम् । ननु विरोधिपरामर्श यदि विपरीतनिर्णयविरोधौ कथं तर्हि विशेषदर्शने मत्यपि दोषवशाच्चक्षुरादिना पीतत्वादिभ्रमइत्यताह, 'चक्षुरादेचेति, 'चस्वर्थः, 'नानुमानेन' न विशेष