________________
सत्वचिन्तामो
व्यभिचारवदस्यापि दोषत्वात्। ननु साध्य-तदभावयोरिव तयाप्यत्वेनावधारितया विरोधादेकत्र न निश्चयः किन्तु संशयः, निर्णये वान्यंतरव्याप्तिसंशय इति व्याप्यत्वासिद्धिरिति चेत्, न, उभयोरे
साध्याभाव माययोयुगपदनुमित्यापत्तेश्चेति भावः। 'साध्य-तदभावयोरिवेति 'न निश्चयः' इत्यत्र दृष्टान्तः, “विरोधात्' परस्पराभावव्याप्यत्वात् । ननु माध्यव्याप्य तदभावव्याप्ययोर्वस्तुगत्या परस्पराभावव्याप्यत्वरूपविरोधसत्त्वेऽपि तत्प्रकारेण ज्ञानाभावादेकत्र निश्चयो न विरुध्यत इत्यखरमादाइ, 'निर्णये वेति, तदनन्तरमिति शेषः, 'अन्यतरेति उभयेत्यर्थः, 'व्याप्यत्वामिद्धिः' व्याप्यत्वनिश्चयाभावः, तथाच कारणभावादेवानुमित्यनुत्पादसम्भवाबासौ प्रतिबन्धकइति भावः। पूर्व व्याप्यभावज्ञानेनान्यथासिद्धेनिराकरणेऽपि व्याप्तिनिश्चयाभावेनान्यथासिद्धेरनिराकरणब पौनरुत्वं । 'उभयोः' माध्यव्याप्य-तदभावव्याप्ययोः, 'अन्यतरव्याप्तिसंशयः' उभयत्र व्याप्तिसंभयः, 'अस्य भिन्नत्वादिति अस्य 'पृथक्प्रतिबन्धकत्वादित्यर्थः । नन्यस्योपजीव्यत्वेऽपि पृथक्प्रतिबन्धकवे किं मानमित्यतपार, 'दूषकताबोजन्विति साक्षात्प्रतिबन्धकताकल्पकन्वित्यर्थः । 'विरोधिसामग्रौप्रतिबन्धेन' विरोधिनिर्णयासाधारणकारणविरोधिपरामर्शविशिष्टेन परामर्शान्तरेण, “निर्णयाजनकत्वं' अनुभवसिद्धं निर्णयाजननं अनुभवसिद्धोऽनुमित्यनुत्पाद इति यावत्,