________________
सत्प्रतिपक्षसिद्धान्तः । तयाविरोधभङ्गेऽप्युपपत्तेनं व्याप्त्यादिभङ्गनियम.इति वाच्यम् । अविरोधेऽप्यमित्यविरोधात् “विरोधे तु व्यायादिभङ्गनियमादिति चेत्,.न, प्रतिरुवत्वज्ञानानन्तरं व्याप्त्यादिभङ्गज्ञानमित्युपजीव्यत्वेन
समुद्भाव्याः, श्राधिक्यप्रसङ्गादिति भावः । 'अध्यात्मकत्वादिति माध्य-तदभावोभयानाश्रयत्वादित्यर्थः, 'व्याप्ति-पक्षधर्मताभङ्गः' तदन्यतरभङ्गग्रहः, ‘एकत्र' स्थापनाहेतौ,(९) 'म एव दोष इति, एतच्च व्याप्ति-पक्षधर्मत्वाभावज्ञानस्य साचादनुमितिप्रतिबन्धकत्वमभ्युपेत्य, 'तयोः' साध्य तदभावयोः, 'विरोधभङ्गऽपि' विरोधित्वाग्रहदशायामपि, 'उपपत्तेः' साध्याभावव्याप्यवत्तानिश्चयस्य सम्भवात्, ‘न व्याप्यादिभङ्गनियमः' न व्याप्यादिभङ्गाहनियमः, 'अविरोधे' विरोधित्वाग्रहे, 'अनुमित्यविरोधादिति, माध्य-तदभावयोर्विरोधित्वज्ञानं विना साध्याभावव्याप्यवत्ताज्ञानं न प्रतिबन्धकमित्यभिमानः । 'विरोरे परोधित्वग्रहे, 'व्याप्यादिभङ्गेति तद्हेत्यर्थः । 'प्रतिरुद्धनमानानन्तरमिति माध्य-तदभावव्याप्यवत्तापरामानन्तरमित्यर्थः, 'व्यभिचारवत्' तज्ज्ञानवत् । न चोपजीव्यत्वेऽपि न साक्षात्प्रतिबन्धकमिति वायं। तथा मति व्याप्यभावज्ञानोत्पत्तिकाले अनु- . मित्यापत्तेः वहिव्याप्यधूमवान् वयभावव्याप्यवांश्च इति परामर्थात्
(१) स्थापनातौ इत्यनन्तरं प्रतिस्थापनायां वा इत्यधिकः पाठः,
ख चिह्नितपुस्तके वर्तते ।