________________
'तत्त्वचिन्तामणौ
दर्शनेन तस्याधिकबलत्वात् । नन्वेवं वादिवाक्य
दर्शनेन, 'प्रतिरोधः' कार्यप्रतिबन्धः, 'तदुपस्थितावपि' तत्मत्वेऽपि, ‘फलदर्शनेन' चक्षुरादेः फलदर्शनेन, 'तस्य' चक्षुरादेः फलस्य, 'अधिकबलत्वादिति विशेषदर्शनाप्रतिबध्यत्वात्, एतच्च प्रत्यक्षातिरिक्तज्ञानमेव तदभावव्याप्यवत्तानिर्णयस्य प्रतिबध्यमिति जरतरमतानुसारेण। यहा 'प्रतिरोधः' दोषाधौनकार्यप्रतिरोधः, 'तदुपस्थितावपि' मत्सत्वेऽपि, ‘फलदर्शनेन' दोषवशाच्चक्षुरादेः फलदर्शनेन, 'तस्य' दोषवशाञ्चक्षुरादेः फलस्य, 'अधिकबलत्वात्' विशेषदर्शनेनाप्रतिवध्यत्वात्, तथाच दोषविशेषाजन्यज्ञानमेव विशेषदर्शनस्य प्रतिबध्यमिति भावः। यद्दा ननु विरोधिपरामर्शी यदि विपरीतनिर्णयविरोधी कथन्तर्हि आनुमानिकविशेषदर्शने सत्यपि चक्षुरादिना लौकिकोऽनुभव इत्यत आह, 'चक्षुरादेश्चेति, 'नानुमानेन' नानुमानिकविशेषदर्शनेन, 'प्रतिरोधः' लौकिकानुभवात्मककार्यप्रतिबन्धः, 'तदुपस्थितावपि' तत्मत्वेऽपि, ‘फलदर्शनेन' लौकिकानुभवात्मकस्य तत्फलस्य दर्शनेन, 'तस्य' तादृशस्य फलस्य, 'अधिकबलत्वात्' श्रानुमानिकविशेषदर्शनाप्रतिबध्यत्वात्, तथाच लौकिकसन्त्रिकर्षाजन्यज्ञानमेवानमित्यादिरूपविशेषदर्शनस्य प्रतिबध्यं, लौकिकमन्त्रिकर्षजन्यज्ञानन्तु समानेन्द्रियजन्यलौकिकविशेषदर्शनस्यैव प्रतिबध्यमिति भावः । 'नन्वेवमिति, ‘एवं विरोधिपरामी थदि विपरीतनिश्चयविरोधौ तदा, 'वादिवाक्यमात्रस्य