________________
सत्प्रतिपक्षसिद्धान्तः । स्थापनाया व्याप्ति-पक्षधर्मत्वमुभयवादिसिहं वादिना तदभावानुपन्यासात्, द्वितीयस्य तु तवमन्यतरासिद्धमिति प्रथमेन द्वितीयं बाधितमिति स्वार्थानुमानएवायं दोष इत्येके। तन्न। एकदा निरन्तरयोरुभयो
विवादातिरिक्तस्थल एव सत्प्रतिपक्षत्वं सम्भवति,(१) न तु विवादस्थखइति केचिद्वदन्ति तन्मतमुपन्यस्य दूषयति, 'स्थापनाया इति, 'स्थापनायाः' माधनस्येत्यर्थः, 'उभयवादिसिद्धं उभयवादिमिद्धत्वेन निधितं, मध्यस्थस्येति शेषः । 'वादिना' प्रतिस्थापनावादिना, 'तदभावानुपन्यामादिति व्याप्ति-पक्षधर्मत्वाभावमनुपन्यस्य सत्प्रतिपक्षोपन्यासादित्यर्थः । 'द्वितीयस्य तु' प्रतिस्थापनामाधनस्य तु, 'अन्यतरासिद्धमिति स्थापनावाद्यनुमतत्वेनानिश्चितमित्यर्थः । तेन तत्र तदभावं विहाय दूषणान्तरानुपन्यासादिति भावः । 'प्रथमेन' प्रथमसाधने व्याप्ति-पक्षधर्मतयोरुभयवादिसिद्धत्वनिश्चयेन स्थापनासाधने व्याप्ति-पक्षधर्मतयोरुभयवादिसिद्धलनिश्चयेनेति थावत्, 'दितीयं प्रतिस्थापनासाधनं, 'बाधितं' व्याप्ति-पक्षधर्मतान्यतराभाववत्तया निश्चितं, 'स्वार्थानुमान एव' विवादातिरिकस्थल एव, 'अयं दोषः' मत्प्रतिपक्षरूपो दोषः, सम्भवतीति शेषः । 'निरन्तरयोरिति सप्तमी, क्रमिकक्षणद्वयोरित्यर्थः, 'व्याप्ति-पक्षधर्मतयेति माध्य-तदभावनिरूपितव्याप्ति-पक्षधर्मतयेत्यर्थः । 'निरन्नयोति
(१) सत्प्रतिपक्षः सम्भववौति ख०, ग. ।