________________
अथ सत्प्रतिपक्षसिद्धान्तः। उच्यते। साध्यविरोध्युपस्थापनसमर्थसमानबलोप
' अथ सत्प्रतिपक्षसिद्धान्तरहस्यम्। यद्यपि सायाभावव्याप्यवान् पक्षः सत्प्रतिपक्षः येन केनचित् . सम्बन्धेन तद्वान् हेतुः मत्प्रतिपक्षितः, तथापि तन्न सत्प्रतिपक्षितत्वव्यवहारौपयिकं साध्यवत्यपि पचे माध्य-तदभावव्याप्यवत्तापरामर्शयोः सम्बलनदशायां() सत्प्रतिपक्षव्यवहारात् माध्याभाववत्यपि पक्षे माध्यतदभावव्याप्यवत्तापरामर्शयोः असम्बलनदशायां तादृशपरामर्शयोरेकत्राप्रामाण्ययहदशायां वा मत्प्रतिपक्षितत्वव्यवहाराभावाच्चेत्यतो व्यवहारौपयिक लक्षणमाह, ‘माध्यविरोधौति ‘माध्यविरोधी' साध्याभावः, तदुपस्थापनसमर्था तदनुमितिजननखरूपयोग्या या 'समाना' समानकालौना, 'बलोपस्थितिः' बलवती उपस्थितिः, तया 'प्रतिरुद्धः' विशिष्टः, य: 'कार्यलिङ्गः' माध्यानुमितिरूपकार्यजननसमर्थः साध्यव्याप्यवत्तापरामर्शः, तदिशिष्टत्वमित्यर्थः, बहुव्रीहिममामाश्रयणाद्वैशिष्यलाभः, 'व्याप्ति-पक्षधर्मते' इति साध्याभावव्याप्तिसम्बन्धित्व-पक्षसम्बन्धित्वे इत्यर्थः, माध्याभावव्याप्तिसम्बन्धित्वं माध्याभावव्याप्यत्वावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नपक्षविषयत्वं, पक्षसम्बन्धित्वञ्च पक्षतावच्छेदकावच्छिन्नविषयतानिरूपितमाध्याभाव
(१) समूहालम्बनदशायामिति ग० ।