SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ ६६ तत्त्वचिन्तामणौ न सपक्षसत्यादि व्यतिरेकिण्यभावात् ! नापि समानव्याप्ति-पक्षधर्मतावत्वं, विरोधेनैकच तद्भङ्गनियमात्। नापि व्याप्ति-पक्षधर्मतया ज्ञातत्वं विरोधिव्याप्तिपक्ष प्रसिद्धिसत्त्वेऽप्येकत्र हेतौ तदभावस्थावश्यकत्वात् । 'समानव्याप्तौति समानसाध्याभावनिरूपितव्याप्ति-पक्षधर्मतावत्त्वमित्यर्थः, समानबलवत्त्वमिति शेषः, व्याप्ति-पक्षधर्मतयोः समानत्वञ्च तत्कालीन तत्पुरुषोयसाध्यानुमितिजनकखनिष्ठमाध्यनिरूपितव्याप्ति-पक्षधर्मताज्ञानसमानाधिकरण-समानकालौनज्ञानविषयत्वं, खनिष्ठत्वं व्याप्ति-पक्षधर्माताविशेषणं, स्वपदं लक्ष्यीभूतलिङ्गपरं, 'विरोधेनेति माध्य-तदभावयोर्विरोधेनेत्यर्थः, 'तझङ्गेति खमाध्यनिरूपितव्याप्ति-पक्षधर्मातान्यतरभङ्गत्यर्थः, 'व्याप्ति-पक्षधर्मतयेति समानसाध्याभावनिरूपितव्यातिविशिष्टपक्षधर्माताज्ञानविषयत्वमित्यर्थः, समानबलवत्त्वमिति शेषः । ज्ञाननिष्ठसमानत्वञ्च तत्कालीन-तत्पुरुषोयसाध्यानुमितिजनकखविषयकसाध्यनिरूपितव्याप्तिविभिटपक्षधर्मताज्ञानसमानाधिकरणसमानकालौनत्वं, लिङ्गविगेय्यक माध्य-तदभावव्याप्तिविशिष्टपक्षधर्मताप्रकारकपरामर्थावेव सर्वत्र सत्प्रतिपक्षी तादृशपरामर्शस्थापि प्राचौममते(१) अनुमितिजनकत्वादिति भावः । 'विरोधिव्याप्तिपक्षधर्माताविशिष्टज्ञानयोरिति परस्परविरुद्धयोर्व्याप्ति-पक्षधर्मतयोरेकाधिकरणे ज्ञानस्येत्यर्थः, 'अन्यतरभ्रमत्वनियमेनेति व्याप्ति-पक्षधर्म (१) प्राचीननये इति ख, ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy