________________
पूज
तत्वचिन्तामणे
मत्वज्ञानात् साध्याभाववामित्वज्ञानमावश्यकं तेन विना साधावदत्तित्वाज्ञानादिति वाच्यम्। उपजीव्यत्वेन भिन्नत्वात् उपजीव्यत्वेऽपि साध्यवति न वर्ततइति ज्ञानं न स्वतोदूषकमिति चेत् । न। असहचार
'साध्यवदवृत्तित्वाज्ञानात्' वृत्तिमत्त्वविशिष्टसाध्यवदवृत्तित्वज्ञानानुत्पादात्, वृत्तिमत्वविशिष्टसाध्यवदवृत्तित्वज्ञानोत्पत्तेः साध्याभाववगामित्वज्ञानोत्पत्तिव्याप्यत्वादिति यावत्, एकविशेषबाधग्राहकसामग्रीसहकृतमामान्यग्रहसामग्र्यास्तदितर विशेषप्रकारकज्ञानजनकस्वनियमादिति भावः। यद्यपि वृत्तिमत्त्वे सति माध्यवदवृत्तित्वजानस्य साध्याभाववगामित्वविषयकत्वावश्यकत्वे न कापि क्षतिः प्रतिबध्यतावच्छेदकभेदादेकेनापरस्यान्यथासियसम्भवात्, तथापि तदुपेक्ष्य स्फुटतरमस्य समाधानमाह, 'उपजीव्यत्वेनेति वृत्तिमत्त्वे मति माध्यवदवृत्तित्वज्ञानस्य इतरबाधनिश्चयबिधया तत्र साध्याभाववद्वृत्तित्वज्ञाने कुत्रचिदुपजीव्यवमात्रेणेत्यर्थः, मात्रपदात् तस्य तदात्मकवनियमव्यवच्छेदः, 'भिन्नत्वादिति कुत्रचित्तत्र तगिनत्वस्यापि सत्त्वादित्यर्थः, साध्याभावाद्युपस्थितिविरहेण तेन विनापि क्वचित्तदुत्पादादिति भावः। 'उपजीव्यत्वेऽपि' कचिदुपजीव्यमाचसत्त्वेऽपि तस्य तदात्मकत्वनियमाभावेऽपौति यावत्, 'न खतो दूषकमिति नानुमिति-तत्कारणान्यतरं प्रति साक्षात् प्रतिबन्धकमित्यर्थः, तथाच साध्यवदवृत्तित्वं कथं हेत्वाभास इति भावः। 'असहचारज्ञानस्य' साध्यवदत्तिवज्ञानस्य, 'विरोधितया' सहचारांशग्रहविरोधितया,