________________
विवइसिद्धान्तः।
८५६
ज्ञानस्य विरोधितया व्याप्तिग्रहप्रतिबन्धकत्वात् व्यभिचाराज्ञानविरोधित्वेन व्यभिचारज्ञानवत् । ननु विरुखस्य स्वार्थानुमानदोषत्वेपि परार्थानुमानेऽपार्थकत्वं अयोग्यताज्ञानेन निश्चितानन्वयादिति चेत् । न। अयोग्यताज्ञानस्य विरुवत्वज्ञानोपजीवकत्वेन तस्यैव दोषत्वात् बाधेऽप्येवं। स चायं विधिसाधने विविधः
'व्यभिचाराज्ञानेति व्यभिचारस्थाज्ञानं यस्मादिति व्युत्पत्त्या अव्यभिचारज्ञानेत्यर्थः। 'नन्विति, 'अपार्थकत्वं' अपार्थकत्वमेव उद्भाव्यमिति शेषः, यतः शाब्ददोषस्य पुरस्फूर्तिकतया तस्मिन् सति हेत्वाभासोद्भावनं निरनुयोज्यानुयोगमावहतौति भावः। ननु कुतोऽपार्थकवमित्यत आह, ‘अयोग्यतेति एकपदार्थेऽपरपदार्थाभावप्रमायाअयोग्यतात्वेन प्रकृते साधने माध्यमामानाधिकरण्याभावप्रमैवायोग्यता तस्याः ज्ञानेनेत्यर्थः, 'निश्चितेति निश्चितायोग्यताकत्वादित्यर्थः, तथाच निश्चितायोग्यताकत्वेनापार्थकत्वं यत्रानन्वयावगतिः तदेवापार्थकमिति परिशिष्टकताभिधानादिति भावः । 'अयोग्यताज्ञानस्थेति विरुद्धत्वप्रमाया ज्ञानमेवात्रायोग्यताधीः तत्र च विषयबिधया विरुद्धत्वज्ञानमुपजीव्यमिति भावः । 'दोषत्वात्' दोषत्वेनोद्भाव्यत्वान्, 'बाधेऽप्येवमिति, ‘एवं' तज्ज्ञानस्यायोग्यताज्ञानोपजौव्यत्वेन परार्थस्थले उद्भाव्यत्वं । 'म चामिति, 'अयं विरोधः,. 'विधिमाधने' विधिमाधकनया परोपन्यस्ते विरुद्धसाधने, 'त्रिविधः' लिङ्गत्रयेणैव कथावसरेऽनुमेयतया कथकसम्प्रदायमिद्धः, किं लिङ्गा