________________
- विवजयूज़पक्षः।
E अधिकस्य व्यर्थत्वात् । न प विरुई व्यावर्च, विपक्षगामित्वेनाचैव तदन्तर्भावात्। अथानैकान्तिकें विपक्षसम्बन्धो न दूषकतावीजम् असाधारणाद्यव्याप्तेः । न च तवान्यदेव वौज, हेत्वाभासाधिक्यापत्तेरिति व्यभिचारिणि अव्यभिचारांशे भ्रमः निरुक्तविरुद्धे तु सामानाधिकरण्यांशे भ्रम इत्येवाशको विशेषसम्भवात् । वस्तुतस्तु बाधविभिष्टव्यभिचारादिवत् विशिष्टान्तरघटितवान्न दोषत्वसम्भव इत्येव तत्वं । 'विपक्षवृत्तित्व) न विशेषणमिति तादाम्यसम्बन्धेन विपत्तिहेतुमान् यः सोऽनैकान्तिक इति नानेकान्तिकसामान्यलक्षणमित्यर्थः, 'असाधारणेति व्याप्यमझौसाधारणाद्यव्याप्तेरित्यर्थः, 'सपनवृत्तित्वमहितमिति विपक्षवृत्तिवे मति सपत्तित्वविशिष्टं साधनमित्यर्थः, तथाचानकान्निकसामान्यलक्षणस्य माधारणलक्षणस्य चायाप्यतया माध्याभावसमानाधिकरणोहेतुरेव विरोधोवाच्यः न तु माध्यवदवृत्तित्वांभोऽपि निवेशनीय इति भावः। 'अधिकस्य' मपक्षवृत्तित्वांशस्य, 'व्यर्थत्वादिति दूषकतायामनुपयोगित्लादित्यर्थः ।
ननु नेदं दूषकताप्रयोजकं.रूपमपि तु माधारणव्यवहारविषयतावच्छेदकं तथाच विरुद्धवारणाय तदुपादानमित्यभिप्रायेणाह, 'न चेति, 'तदन्तर्भावात्' विरुद्धस्यान्तर्भावात्, तथाच विपक्षगामित्वमादाय माधारणव्यवहारस्य विरुद्धेऽपि मत्त्वात् नेदं माधारणव्यवहारविषयतावच्छेदकमपौति भावः । ननु विरुद्धे माधारणव्यवहारो
(१) विपक्षगामित्वमिति कचिह्नितमूलपुस्तकपाठः ।
107