________________
age
तावचिन्तामयी
चानकान्तिवसामान्यलक्षणे विपक्षवृत्तित्वं न विशेषणम् असाधारणाद्यव्याप्तेः साधारणन्तु सपक्षत्तित्वसहितमिति वा । विपक्षगामित्वस्यैव साधारणत्वात्
रूपतनियतत्वाश्रयोऽपौत्यर्थः, तस्य नियतत्वं यत्रेति व्युत्पत्तेः, गौरवादिति गौरवेण तत्र व्याप्तिज्ञानस्यानुमितेर्वा प्रतिबन्धकतावच्छेदकालविरहादित्यर्थः । ननु स्वरूपसम्बन्धरूपावच्छेदकतापर्याप्यधिकरणत्वं न दोषत्वघटकं अपि तु अतिरिक्तवृत्तित्वरूपं तच्च गौरवेऽपि सम्भवतीत्यत-बाह, 'असाधकत्व इति साध्य इति शेषः, 'वैयर्थ्यादिति(९) माध्यामहचरितत्वदलवेयर्थ्यादित्यर्थः, तथाचासाधकतासाधकत्वस्य दोषत्वव्यापकतया तदभावान तस्य दोषत्वसम्भवः, अतएव पूर्वानसामान्यलक्षणमपि केवलं न दोषपदप्रवृत्तिनिमित्तं अपि तु असाधकतासाधकत्वविशेषितमिति भावः। ननु केवलमसाधकतासाधकत्वं न दोषत्वव्यापकं अपि तु असाधकतासाधकबाशक्तिविशेषोनायकत्वान्यतरवत्त्वं, तच्च तत्र वर्त्तत एव इत्यतपाह, 'न चेति, 'माध्यासहचरितस्य माध्याभावसहचरितत्वे मति माध्यासहचरितस्य, 'गमकत्वधमरूपायामिति गमकतायाः प्रयोजकतारूपाया व्यतिर्धमरूपायामित्यर्थः, 'न व्यर्थविशेषणता! नासाधकतासाधने व्यर्थविशेषणता दोषत्वविघटिकेति शेषः । एतचापाततः
(१) मूखे 'थर्थत्वात्' इत्यत्र 'वैयर्थात्' इति कस्यचिन्भूजपुस्तकस्य
पाठोऽनेन पाठधारणेगानुमीयते ।