________________
विवज्रपूर्वपच्चः ।
४३
साध्यवदन्योन्याभावव्याप्यो
करणसाध्याभावव्याप्यः वा, साध्याभावत्वं साध्यविरोधित्वमाचं भावाभाव
ertureमानाधिकरणत्वं श्रत्र साध्यानधिकरणवृत्तित्वं श्रधिकरणभेदेन संयोगाद्यभावस्य भिन्नतया च संयोगादिसाध्यकमद्धेतौ नातिव्याप्तिः, न तु साध्याधिकरणावृत्तित्वं तत् श्रधिकरणभेदेन संयोगाद्यभावस्य भिन्नत्वाभ्युपगमादेव संयोगी गुणत्वादित्यादावव्यातिविरहेऽपि (९) साध्याभावपदवैयर्थ्यापत्तेः साध्याधिकरणावृत्तित्वस्यैव सम्यक्लात्। न चैवमपि साध्यपदवैयर्थं साध्यानधिकरणवृत्त्यभावव्याप्यत्वस्यैव सम्यक्तात् भावभिन्नाभावस्य घटकतया साध्यानधि - करणवृत्तिद्रव्यत्वादिव्याप्यत्वमादाय सङ्केतौ नातिप्रसङ्ग इति वाच्यं । साध्यानधिकरणवृत्त्याकाशाभावव्याप्यत्वमादाय प्रतियोगिसमानाधिकरणत्व-तद्व्यधिकरणत्वलचणविरुद्धधर्माध्यासा
सङ्केतावतिप्रसङ्गात्
भावेनाकाशाद्यभावस्याधिकरणभेदेन भेदाभावादिति भावः । श्रधिकरणभेदेनाभावभेदे मानाभावादाह, 'साध्यवदिति, अन्योन्याभावस्य चाव्याप्यवृत्तिलाभावात् न संयोगादिसाध्यकसद्धेतावतिव्याप्तिरिति भावः । ननु अधिकरणभेदेनाभावभेदाभ्यपगमेऽपि प्रथमलचणमसङ्गतं द्रव्यत्वाभाववान् पृथिवीत्वादित्याद्यभावसाध्यक
(१) अधिकरणभेदेनाभावस्य भिन्नत्वानभ्युपगमे संयोगाभावस्य संयोगाधिकरणावृत्तित्वाभावेन संयोगो गुणत्वादित्यादावव्याप्तिः तदभ्युपगमे च गुणवृत्तिसंयोगाभावस्य संयोगाधिकरणावृत्तितया तमादाय लक्षणसमन्वय इति समुदिततात्पर्य्यम् ।