________________
१६
तत्वचिन्तामणौ
पक्षवे पक्षातिरिक्ताप्रसिद्धे,असाधारण-विरुयोरतिव्याप्तेश्च दूषकतायां व्यर्थविशेषणत्वाच्च । न च दूषकता अनैकान्तिकत्वेन न प्रत्वेकमिति वाच्यम्। अर्थगत्या व्यर्थविशेषणत्वात्। नापि विप्रतिपत्तिविषयमावत्तित्वं
व्याप्तिग्रहाकूलसहचारसामान्यकत्वमाचं वाच्यं तबाह, 'असाधारणेति, असाधारण: निश्चितसाध्यवड्यावृत्तः शब्दः प्रमेयः शब्दत्वादित्यादौ व्यतिरेकसहचाराग्रहदशायां प्रतिव्याप्तिरेवं विरुद्धे तुरगो गौरश्वत्वादित्यादावपि । ननु तदुभयं लक्ष्यमेव माध्यवत्तया मन्दिह्यमानविश्वकत्वादेर्दूषकतायामनुपयोगेनाकिञ्चित्करत्वादाद,'दूषकतायामिति, 'दूषकतायां' हेत्वाभामतायां, 'व्यर्थविशेषणत्वात्' अनुपयोगित्वात् अग्टहीतसहचारकत्वादिज्ञानस्यानुमितिं प्रत्यविरोधितया तस्य हेत्वाभामत्वायोगादिति फलितार्थः । अथाग्रहौतमइचारकत्वस्य ताद्र्ष्येण बुद्धेरनुमित्यविरोधित्वेऽप्यनेकान्तिकत्वत्वप्रकारेण बुद्धेस्तथात्वादेव तस्य हेत्वाभासावं पर्यवस्थतीत्याशय() निराचष्टे, 'न चेति, 'अर्थगत्येति व्याप्तिग्रहविरोधितावच्छेदकरूपवत्त्व, लक्षणस्यानेकान्तिकत्वपदार्थस्यार्थगत्या तादृशरूपस्यापि दूषकतायामनुपयुकवादित्यर्थः । विप्रतिपत्तिविषयत्वं माध्यवत्तया मन्दियमानत्वं तन्मात्रवृत्तित्वं यदि सकलतहत्तित्वं तदाइ, 'केवलेति,
(९) सत्यतीत्याशयति ।