________________
अनुपसंहारिपूर्वपक्षः।
३५ अथ पक्षातिरिक्त व्याप्तिग्रहानुकूलाप्रतीतसहचारोऽनुपसंहार्य यदि च पधे व्याप्तिग्रहः कथञ्चित्तदा शब्दोपदर्शितव्याप्तिकानुमानवदभेदानुमानवच्च सहेतुरेवेति चेत् । न। तत्रैव सङ्घतावतिव्याप्तेः सर्वस्य
विरुद्धाः पचतादशायां लक्ष्याएवेति भावः। 'व्यापकलादिति अत्यन्ताभावप्रतियोगिमाध्यकत्वाभावेन मत्यन्तार्थस्य तत्रामत्त्वादिति भावः।
'अथेति, पचे तदतिरिक्त चाप्रतीतोऽनिश्चितो व्याप्तिग्रहानुकूलः सहचारो यस्य सोऽनुपसंहार्य इत्यर्थः, तादृशः . सहचारः माध्य: साधनयोरन्वये व्यतिरेके चाविशिष्ट इति तदेकतरग्रहेऽपि नानुपसंहारिता। ननु पक्षभिन्नाप्रतीतव्याप्तिग्रहानुकूलसहचारकत्वमित्येवास्तु कृतं पक्षाप्रतीततादृशसहचारकत्वदलेन इत्यत बाह, 'यदि चेति, 'कथञ्चित् तदुपनयादिवशेन, ‘मद्धतुरेवेति, तथाच तदारणर्थमेव पक्षाप्रतीतसहचारकत्वदलमिति लक्षणकृतामाशय । 'पचातिरिक्त इत्यस्य पक्षादन्यस्मिन् इत्यर्थ सङ्कलय्य दूषयति, 'तत्रैवेति पक्षे ग्टहीतव्याप्तिके इत्यर्थः। पक्षे तदतिरिक्त चेत्यर्थ- . करणे दोषमाइ, 'सर्वस्येति, येन रूपेण पक्षता तदवच्छिन्नान्यत्वं न पचातिरिकत्वं प्रमेयत्ववत्सर्वमनित्यं वाच्यत्वादित्यादावव्याण्यापत्तेः, परन्तु येन रूपेण पचत्वं तदाश्रयस्य प्रत्येकभेदकूटवत्वं तच मर्चवावच्छिनभेदस्य सत्त्वेऽपि प्रसिद्धमेवेति भावः । अथानिधित