________________
तत्वचिन्तामो
साध्यकत्वे सति केवलान्वयिधावच्छिन्नपक्षकत्वं, सर्वमभिधेयं यत्वादित्यच विप्रतिपत्त्या पक्षतादशायां पक्षे साध्यानिश्चयेनानुपसंहारिण्यव्यापकत्वात्।
यः साध्यवत्तदन्यवृत्तिस्तत्त्वमित्यर्थः, तेन पर्वतो वजिमान् धूमादित्यादौ पक्षान्यो यः माध्यवान् तदन्यस्मिन् वर्तमाने धूमादिइतौ नातिव्याप्तिः, सर्व क्षणिकमित्यादौ च पक्षान्याप्रसिद्ध्यैव नातिव्याप्तिरित्याशयः । विरुद्धस्य साधारण्यमनङ्गीकुर्वतां मतेनेदं तदङ्गोकुळतां मते वाह, 'पक्षातिरिक्नेति पक्षातिरिक्त वर्त्तते यः साध्याभाववत्तिस्तत्त्वमित्यर्थः, तेन पर्वतः पर्वतान्यो द्रव्यत्वादित्यादौ पक्षान्यस्य साध्याभाववत्ताप्रसिद्धावपि नाव्याप्तिः, 'व्यर्थति माध्यवदन्यत्तित्वस्यैव सम्यक्त्वात् प्रथमे साध्यवहृत्तित्वेन महितस्य पक्षातिरिक्रवृत्तित्वस्य द्वितीये च तन्मात्रविशेषणस्य व्यर्थखादित्यर्थः । ननु तुरगो गौरश्वत्वादितिविरुद्धस्य वारणार्थमेव पक्षान्यवृत्तिवादिविशेषणं निवेश्यमत पाह, 'न चेति, 'उन', 'विरुद्धस्थापि तत्त्वाज्ञाने माधारणत्वमेवेतिग्रन्थेन। 'नापौति, 'केवलान्वयिधर्मावच्छिन्नपचकलं' माध्यवत्तया निश्चीयमानताशून्यपक्षकत्वं, तच्च घटः प्रमेयो वाच्यत्वादित्यादौ व्यतिरेकव्याप्तिमत्तया भ्राम्यमाणे मद्धेतावतिव्याप्तमतः सत्यन्तं, तावन्मात्रञ्च पर्वतो वहिमान् धूमादित्यादावषयव्याप्तिमत्तया रामाणे गतमतो विशेष्यदलं, सर्व वक्रिमन् धूमान् द्रव्यत्वात् जलवादा इत्यादयस्तु सद्धेत-साधारण