________________
चसाधारणपूर्वपक्षः। अथ सर्वसपक्षव्यावृत्तिरेव दोषोन विपक्षव्यात्तिरपि तस्या अनुगुणत्वात् प्रत्युत विपक्षव्यायत्तत्वेन व्यतिरेकितया परसाध्यसाधकमेवोपन्यक्तं स्यात् । न च संशायकतया दोषत्वं तच्चोभयव्यात्तत्वज्ञानादिति वाच्यं । व्याप्तिग्राहकं सहचारज्ञानं तदभावद्वारा सपक्षव्याहत्तत्वमावस्य दोषत्वात्। किञ्च शब्दोऽनित्यः शब्दत्वादित्युक्त्वा निवृत्ते तावन्नेदमुद्भाव्यं न्यूनत्वेनैव वादिनिग्रहात् तदुद्भावने वादिनिवृत्तेश्च । न च न्यूनत्वे तदुपजीव्यं, असाधारण्यव्यतिरेकेणापि तदुपन्यासात्।
स्वमतेन सिद्धान्तयितुं प्राचांमतं निरस्यति, 'अथेति, 'दोषइति उद्भाव्य इति शेषः, 'अनुगुणत्वादिति अधिकरणविशेषान्तर्भावेण व्यभिचारयहं प्रति विरोधितया माध्यौयव्याप्तिग्रहं प्रति उपयुक्रत्वादित्यर्थः, 'यतिरेकितया' व्यतिरेकव्याप्युपयोगितया, विपक्षतया निश्चितेषु हेतोरसत्त्वग्रहे हेत्वभावस्य विपक्षत्वव्यापकताधौसम्भवादिति भावः। 'न चेति, 'संशायकतया' माध्यसंशायकतया, 'दोषत्वं' असाधारणस्येति शेषः, 'उभयव्यावृत्तत्वेति सपक्षविपक्षोभयव्यावृत्तत्वज्ञानादेवेत्यर्थः, 'व्याप्तौति व्याप्तिग्राहक व्यापकसामानाधिकरण्यरूपव्याप्तिविषयकं यत्माध्य-साधनयोः सहचारचान, 'तदभावधारा' तत्प्रतिबन्धकद्वारा, 'सपव्यावृत्तत्वमात्रस्य दोषवात्', तथाचोभयव्यावृत्तत्वज्ञानत्वेनानुमितौ परामर्श वा प्रतिबन्धकत्वाभावानामौ दोषः । ननु प्रमाणदूषणमपि सपक्ष-विपक्षो