________________
८२६
तत्त्वचिन्तामणे
प्तिग्रहे सति शब्दे साध्यनिश्चयानातिव्याप्तिः। न च घटेोऽयमेतच्चादिति सचेतावतिव्याप्तिः, साध्यसन्देहदशायां तस्य हेत्वाभासत्वात्। यद्यपि भूनित्या गन्धववादित्यादिवस्तुतः साधारणः शब्दो नित्यः शब्दत्वादिति विरुद्धः शब्दोऽनित्यः शब्दत्वादित्यादिः सङ्घतुरेव व्याप्त्यज्ञानस्य पुरुषदोषत्वादित्युदाहरणाभावादसाधारण न पृथक्, तथापि पक्षतादशायां साध्यतदभावानिश्चयेन तस्य दोषत्वम् अन्यथा पक्षत्वभङ्गप्रसङ्गात्।
तत्तत्पुरुषेण तदानौं साध्यवत्तया निश्चीयमानेभ्यः सर्वेभ्योव्याहत्तत्वे मति माध्याभाववत्तया निश्चीयमानेभ्यो व्यावृत्तत्वं तत्तत्पुरुषं प्रति तदानौमसाधारण्यमित्यर्थः, तेन शब्दोऽनित्यः शब्दलादित्यादे - संग्रहः । न च नित्यव्यावृत्तधर्मवत्सर्वमनित्यं श्रवणमात्रग्राह्यजातिमत्सर्वमनित्यमित्यादिधौदशायां शब्दोऽनित्यः शब्दत्वादित्यमाधारणाव्याप्तिः तादृशधर्मवत्वेन शब्देऽपि माध्यवत्तानिश्चयादिति वाच्यं । तत्तज्ज्ञानान्यत्वेनापि माध्यनिश्चयस्य विशेषणौयत्वादिति भावः । 'म चेति न वेत्यर्थः, 'सद्धेतौ' मद्धेतुत्वेन निश्चिते, 'माध्येति, पक्षे माध्यस्य संभयदशायामनिश्चयदशायां वा तस्य पक्षमात्रवृत्तिहेतोसकहेत्वाभासत्वादिति भावः । 'पक्षतादशायां' पक्षे माध्यसंशयसत्त्वदायां,'तस्य' साधारण्यादेः, 'अन्यथा' माध्य-तदभावयोरन्यतरस्य पक्षधर्मिकनिर्णयसत्त्वे ।