________________
८२४
तवचिन्तामणी
ववादित्यसाधारणश्च वस्तुगत्या साध्याभाववत्तित्वेन साधारणोऽपि पक्षतादशायाम् उद्भावयितुं न शक्यत इत्युभयो: देनोपन्यासः।
इति श्रीमहङ्गेशपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे साधारणसिद्धान्तः ॥०॥ विपक्षगामिलं यदि माधारणं तदा माध्याभावव्याप्यत्वरूपस्य विरुद्धत्वस्य तबियतत्वात् न दुष्ट हेतुविभाजकत्वं स्थात् मिथोविरुद्धधर्माणमेव तथात्वादत प्राइ, 'उपाधेश्चेति साधारणत्व-विरु
खाधुपाधेः, 'न सङ्करः नाभेदः, तथाच मिथो भिनाना दोषाणामेव लक्ष्यतया दुष्टानामभेदो न चतिकरः, पचवृत्तिवे मति माध्यव्यापकीभताभावप्रतियोगित्वं माध्याममानाधिकरणत्वमाचं वा विरुद्धत्वं तञ्च न विपक्षवृत्तित्वमतस्तन्मात्रेण न तस्यान्यथासिद्धिरिति भावः ।
ननु साधारण्यं यदि विपक्षवृत्तिवं तदानुपसंहारितादशायां पक्षमात्रवृत्तित्वग्रहदशायां वा कथायां कथममौ नोपन्यस्यते तदानौमपि हेतौ तत्मत्वादत शाह, 'सर्वमिति, 'पक्षतादशायामिति प्रतिज्ञाधर्मिणः सन्दिह्यमानमाध्यकत्वदशायामित्यर्थः, 'न शक्यते', साध्य-तदभाववत्तया कस्याप्यनिश्चये निश्चये वा तहृत्तित्वस्य हेतावपहादिति भावः । 'तयोः' अनुपसंहारित्वासाधारण्ययोः,६) 'भेदेन' कालभेदेन, कथायामुपन्यासः।
इति श्रीमथुरानाथतर्कवागौम-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानास्य-दितीयखण्डरहस्ये साधारणमिद्धान्मरहस्यं सम्पूर्णम् । (१) 'इत्युभयोः' इत्यत्र 'इति तयोः' इति कस्यचिम्भूनपुस्तकस्य पाठ
ममुहत्य तयोरिति पाठो धतो रहस्यकता ।