________________
व्यभिचारः।
म्बन्धः प्रत्येकमस्ति विरुद्धोऽप्यनेन रूपेण सव्यभिचारएव उपाधेश्च न सङ्कर इति वक्ष्यत इति निरस्तम्। एतदज्ञाने जाने वावश्यकप्रत्येकज्ञानस्य दोषत्वात्
धूमवान् बहेरित्यादौ धमत्व-वहिवादेरिव व्यभिचारघटकप्रत्येकपदार्थस्यापि व्यभिचारलापत्तेः सव्यभिचारपदस्य पारिभाषिकले इष्टापत्तौ तादृशज्ञानविषयः सहेतस्तस्मिन् पचे तस्मिन् माध्ये सव्यभिचार इत्यस्यैव सम्यक्वेन तादृशज्ञानविषयधर्मसम्बन्धवत्त्वपर्यन्तस्य व्यर्थत्वापत्तेरिति । __ नव्यास्तु अनुमितिविरोधी सम्मन्धो यस्येति बडबौक्षिण धादृशविशिष्टस्य सम्बन्धो यादृशविभिटनिरूपितनिश्चयनिष्ठविषयित्वं अनुमितिविरोधी अनुमितिविरोधितावच्छेदकं तादृशविभिष्टस्थाव्यावृत्तिरभेदो यस्य इति व्युत्पत्त्या अभेदसम्बन्धेन तादृशविशिष्टवान् भव्यभिचार इत्यर्थः, तादृशविशिष्टत्वमेव सव्यभिचारत्वमिति भावः । अनुमितिपदश्च प्रकृतपक्षमात्रोद्देश्यक-प्रकृतसाध्यमात्रविधेयक-प्रकृतहेतुमात्रलिङ्गकानुमितिपरं तेन वयभाववहतिप्रमेयत्वादिकमादाय वद्धिमान् धूमादित्यादिसद्धेतौ नातिप्रसङ्गः, तथाच तन्मात्रपक्षक-तन्मात्रसाध्यक-तन्माचहेतकामुमितिविरोधितावच्छेदकं निश्चयनिष्ठं यादृशविभिष्टनिरूपितविषयित्वं तादृशविशिष्टं तस्मिन् पक्षे तस्मिन् माध्ये तस्मिन् हेतौ व्यभिचारः, अभेदसम्बन्धेन तादृशविशिष्टसम्बन्धी स हेतुः तस्मिन् पक्षे तस्मिन् साध्ये भव्यभिचारः इति व्यभिचार-मयभिचारयोर्लक्षणं फलितं ।