________________
०६
तत्वचिन्तामो
सम्बन्धाव्यात्तिरनैकान्तिकाः सपक्ष-विपक्षतित्वमुभयव्यात्तत्वमनुपसंहारित्वञ्चानुमितिविरोधि तत्स
'पक्षवृत्तित्वे मतौति यथाश्रुतग्रन्थानुयायिनः । तत् । व्यभिचारादिज्ञानस्यैवानुमितिविरोधित्वेन व्यभिचारादरनमित्यविरोधित्वादसम्भवापत्तेः । न च विरोधित्वं विरोधिज्ञानविषयत्वं तथासति । पहिमान् वः वहिमान् धूमादित्यादौ व्यभिचारादिभ्रमविषयवहित्व-धूमत्वादिमादाय वजि-धूमादावतिव्याप्यापत्तेः, समूहासम्बनव्यभिचारादिधमविषयप्रमेयत्वादिमादाय सद्धेतमात्रेऽतिव्याप्यापत्तेः । अथ विरोधिज्ञानविषयत्वमित्यत्र ज्ञानं भ्रमभिन्नत्वेन विशेषणौयं । न च तथापि वढ्यभाववदृत्तिप्रमेयत्वमितिभ्रमभिन्नवयनुमितिप्रतिबन्धकज्ञानविषयवहित्य-प्रमेयत्वादिमादायातिव्यानितादवस्यं इति वाच्यं । अनुमितिपदं हि प्रकृतपक्षमात्रोद्देश्यकप्रकृतमाध्यमात्रविधेयक-प्रकृतहेतमात्रलिङ्गकानुमितिपरं । तथाच तन्मात्रपक्षक-तन्मात्रमाध्यक-तन्माचहेतुकानुमितिप्रतिबन्धकममभिबज्ञानविषयो यो धर्मा यदाकदाचित् तत्मसम्बन्धवान् स हेतुः तस्मिन् पक्षे तस्मिन् माध्ये सव्यभिचार इति लक्षणपर्यवसन्नतया न कस्यापि दोषस्थावकाश इति चेत्। न। तादृशज्ञानविषयधर्मसम्बस्ववत्त्वस्य सव्यभिचारत्वरूपत्वे तादृशज्ञानविषयधर्मस्यैव व्यभिचारत्वं स्थात् अन्यथा व्यभिचारविशिष्टस्य सव्यभिचारपदार्थत्वाभावेन सव्यभिचारपदस्य पारिभाषिकत्वापत्तेः, तस्थ व्यभिचारत्वं न सम्भवति