________________
तत्त्वचिन्तामणी
ज्ञानविषयत्वे सति हेत्वभिमतः सः, विप्रतिपत्तिस्तु
धर्मितावच्छेदकविभिष्टधर्मिज्ञानस्यैव कारणत्वात् । न च एतादृशकोयुपस्थितौनामेव सन्देहजनकत्वमिति नियमे भ्रमत्वघटकतया कोटिइयोपस्थितिरूपस्य भ्रमत्वसंशयस्य कथमर्थसंशयजनकत्वं तस्य भ्रमत्व-तदभावसाधारणज्ञानत्वलक्षणधर्मवद्धर्मिज्ञानजन्यत्वेऽपि अर्थतदभावसाधारणधर्मवद्धर्मिज्ञानाजन्यत्वादिति वाच्यं । तत्रापि भ्रमत्वसंशयरूपकोयुपस्थितेरर्थसन्देहाजनकत्वात् किन्तु भ्रमत्वसंशयानतरं ज्ञानविषयतात्मकसाधारणधर्मदर्शनादर्थ-तदभावोपस्थितेरेव सन्देहजनकत्वात् भ्रमत्वसंशयानुविधानन्तु प्रतिबन्धकापसरणर्थमिति प्राचीनमतानुसारेण लक्षणमाह, 'अथ माथेति, अत्र 'जनकान्तमुपस्थापकपदप्रकृत्यर्थस्य उपस्थितेर्विशेषणं तथाच साध्यसन्देहजनिका या कोटिद्वयोपस्थितिस्तजनकस्य पक्षधर्मताज्ञानस्य विषयो यत्र इति बहुनौहिणा माध्यमन्देहजनककोटियोपस्थितिजनकपक्षधर्मताज्ञानविषयवत्वे मति हेलभिमत इत्यर्थः, 'पक्षधर्मताज्ञान' पक्षविशेष्यकज्ञानं, भवति च माध्य-तदभाववत्तिहेतुमान् पक्षइति पक्षविशेष्यकज्ञानं मपक्ष-विपक्षव्यावृत्तहेतुमानपक्ष इति पक्षविशेष्यकज्ञानञ्च माध्यसन्देहजनककोव्युपस्थितिजनक तद्विषयः माध्य-तदभाववत्तित्वरूपं साधारणत्वं मपक्ष-विपक्षव्यावृत्तत्वरूपमसाधारणत्वञ्च साधारणसाधारणहेत्वोरिति लक्षणसमन्वयः, 'पक्षधर्माताज्ञानविषयत्वे मति' इति यथाश्रुतं न सङ्गच्छते वहि-तदभाववत्तिधूमवान् पर्वत इति पचविशेष्यकभ्रमस्य तथाविध