________________
सावचिन्तामणे
नविष्टिबुद्धिप्रतिबन्धकत्वात् उदाहरणन्तु दोवहिमान् धूमादित्यादिबाधितमानमेव, मद्धेतस्तु कदाचिदपि न सत्प्रतिपक्षितः । बाधितस्तु कदापि नासत्प्रतिपक्षितः इति तु नव्याः।
प्राञ्चस्तु ममानबलप्रकृतपचविशेष्यक-माध्याभावव्याप्यवत्त्वपरामर्शकालौनप्रकृतपक्षविशेष्यक-माध्यव्याप्यवत्त्वपरामर्शः सत्प्रतिपक्षः विषयतासम्बन्धेन तदान हेतुः सत्प्रतिपक्षितः, अयञ्च खरूपसत्रेव साक्षादनुमितिविरोधी, अत एव मद्धेतरपि माध्याभावव्याप्यवत्तापरामर्शकाले सत्प्रतिपक्षितः बाधितोऽपि तदभावदशायां कदाचिदसत्प्रतिपक्षित इत्याहुः । एतन्मते यथोक्तं न दोषलक्षणं किन्न दुष्टलक्षणमेवेति न तत्राव्याप्तिः।
'अमिद्धेति, प्रसिद्धः त्रिविधः स्वरूपासिद्धः श्राश्रयासिद्धोव्याप्यत्वामिद्धश्च तत्र हेत्वभाववान् पक्षः स्वरूपासिद्धिः कलिकादियस्किञ्चित्सम्बन्धेन तद्वान् हेतः स्वरूपामिद्धः एतज्ज्ञानञ्च पक्षधर्मतांगे परामर्थविरोधि उदाहरणन्तु इदोवहिमान् धूमादित्यादि। पक्षविशेषणसिद्धिराश्रयामिद्धिः मा च पचतावच्छेदकाभाववान् पक्षः वृत्तिमत्त्वादियत्किञ्चित्सम्बन्धेन हेतोस्तद्वत्त्वं एतज्ज्ञानञ्च पक्षतावच्छेदकवैभिक्ष्यांचे अनुमिति-परामर्शयोरुभयोरेव विरोधि, उदाहरणन्तु काञ्चनमयः पर्वतोवहिमान् इत्यादि। व्याप्यत्वासिद्धिः त्रिविधा माध्यविशेषणमिद्धिः हेतुविशेषणामिद्धिः व्याप्यभावरूपामिद्धिवं, तत्र माध्यतावच्छेदकाभाववत्माध्यं माध्यविशेषणसिद्धिः मामानाधिकरण्यादियत्किञ्चित्सम्बन्धेन हेतोस्तद्वत्त्वं एतज्ज्ञानच माध्यतावच्छेदकवैशिष्यांशेऽनुमिति-परामर्शयोविरोधि, उदाहर