________________
हेलामासाः।
980
सत्प्रतिपक्षयोरतिव्याप्तानि अनुमित्यसाधारणदोषस्यैवात्र सध्यवान तयोश्च प्रत्यक्ष-शाब्दज्ञानयोरपि प्रतिबन्धकतया माधारणत्वादिति केषाञ्चिद् दूषणमपाकरोति, 'यद्यपौत्यादिना, 'म लिङ्गाभासत्वं' न लिङ्गामाधारणदोषत्वं नानुमित्यसाधारणदोषत्वमिति यावत्, 'ज्ञायमानस्याभासस्येति विशिष्टबुद्धिमामान्यप्रतिबन्धकज्ञानविषयस्य दोषमात्रस्येत्यर्थः, तथाच तयोरपि लक्ष्यत्वान्नातिव्याप्तिरिति भावः ।
अत्र केचित् भाब्दे बाधज्ञानमात्रं न प्रतिबन्धकं नरगिरःकपालं इचि प्राण्यङ्गत्वात् शङ्खवदित्यनुमानेन “मल-मूत्र-पुरीषास्थि निर्गतं ह्यशचि स्मृतं । नारं स्पृष्ट्वा तु सस्नेहं सचेलोजलमाविशेत्” इतिवेदबाधापत्तेः, किन्तु अनुमित्यन्यबाधज्ञानत्वेन । न चैवं परमाणुरनित्य इति शब्दस्यापि ज्ञानजनकत्वापत्तिः परमाणुनित्यः जन्यमहत्त्वानधिकरणत्वे मति(१) द्रव्यवादित्यनुमितेर
(१) गगने दृष्टान्ततालाभार्थ सत्यन्तदले महत्त्वांशे जन्यत्वविशेषणं, घटाद्यन्तर्भावेन सभिचारवारणाय सत्यन्तं, जन्यगुणादौ व्यभिचारवारणाय विशेष्यदलं, परमाणे जन्यक्रियासत्वात् गन्यानधिकरणत्वे सतीत्युक्तौ खरूपासिद्धिः स्यादतीजन्यमहत्त्वानधिकरणत्वे सतीत्युक्त । न च व्यभिचारावारकविशेषणस्य सार्थकत्वाभावात् कथं दृष्टान्ततालाभार्थं व्यभिचाराद्यवारकस्य महत्त्वां जन्यस्वविशेषणस्य सार्थकत्वमिति वाच्यं । अखण्डाभावघटकतया सार्थकात्वसम्भवात् । न च तथापि साध्याभाववति घणुके तादृशहेतोः कथं नानेकान्तिकत्वमिति वाच्छ । महत्त्वपदस्य परिमाणसामान्यपरत्वात् । अतएव व्यभिचारादिवारकतयैव महत्त्वांशे जन्यत्वविशेषणस्य सार्थकत्वं अन्यथा परमाणे नित्यपरिमाणस्य सत्त्वेन वरूपासियापत्तेः इति।