________________
तत्वचिन्तामणी
तिव्याप्तिरिति वाच्यं । तच तद्विषयकत्वस्य तादृशानुमितावपि सत्त्वेन तत्र ' तादृशानुमितिप्रतिबन्धकत्वविरहात् सिद्धिविधया प्रतिबन्धकत्वस्थापि प्रागुत्तरवर्त्तिमिषाधयिषाकज्ञानेऽभावात् । यदि च नैतादृशं सिषाधयिषासमवहितं तज्ज्ञानं कदापि जातमित्युचते, तदा तु मिद्धिविशेषविषयेऽतिप्रमङ्गवारणाय सिद्धिविधया प्रतिबन्धकतातिरिक्तप्रतिबन्धकतैव लक्षणे निवेशनीया तथाच कुतोऽयमतिप्रसङ्ग इति दिक् ।
यत्तु यत्र बाधादिविषयतानियतविषयिताकोऽङ्कुरादिव्यक्तिविशेषस्तत्र बाधादावव्याप्तिस्तत्र तदनुमितिप्रतिबन्धकताया अडरादिव्यक्तिविशेषविषयत्वरूपेण विशिष्टविषयकत्वान्तरेणाव छेद्यत्वात् रति, तब, विशिष्टविषयकत्वान्तरानवच्छेद्येत्यत्र स्वरूपसम्बन्धरूपावच्छेद्यत्वस्यैव विशेषणीयत्वात् । वस्तुतो वहाभाववद्दवत्प्रमेयत्वविषयित्वावच्छेद्यतया असम्भववारणय स्वघटितानिरूपितविशिटविशेष्यकत्वानवच्छेद्यत्वं विवक्षणीयं, स्वघटितत्वञ्च स्वाविषयकप्रतीत्यविषयत्वं, तथाच तदकुरादेाधादिघटिततया बाधादेः स्वघटितानिरूपितविभिष्टविशेष्यकत्वानवच्छेद्यप्रतिबन्धकतानतिरिक्तवृत्तिवादन्यमवृत्तित्वरूपावच्छेद्यत्वनिवेशेऽपि न क्षतिरिति मन्तव्यं(१) । ' यन्मते ज्ञायमानलिङ्गस्य करणत्ववत् ज्ञायमानव्यभिचारादेरपि प्रतिबधकत्वं तन्मते लक्षणमाइ, 'ज्ञायमानमिति, अत्रापि 'अनुमितिपदं प्रकृतपत्तावच्छेदकरूपेण प्रकृतपचे प्रकृतमाध्यतावच्छे
(१) इदमत्राधेयमित्यादिः इति मन्तव्यमित्यन्तः क-चिह्नितपुस्तकीयजोडपस्थितः पाठः ग घ -चिहितादर्शपुस्तकेषु नास्ति ।