________________
हेत्वाभासाः ।
म
साध्याभाववत्वस्य घटकत्वात् । न चैवं वृचः संयोगो द्रव्यलादित्यादावेव बाधस्य स्वरूपासिद्धि-व्यभिचारासङ्कीर्णोदाहरणतया किं तस्य उदाहरणान्तरगवेषणयेति (९) वात्र्यं । श्रशोकवनिकान्यायात् (९) अतिस्फुटतया ग्रन्थकर्त्तुरुपेचणात् । अथैवं प्रमेयत्वादिविशिष्टवद्ध्यभाववद्दाद्यात्मकस्य विशिष्टस्यापि दोषत्वापत्तिः तद्विषयित्वस्यापि प्रतिबन्धकतानतिरिक्तवृत्तित्वात् । च तादृशविशिष्टान्तराघटितत्वेन यादृशविशिष्टं विशेषणीयं उक्तविशिष्टन्तु न तथा तस्य तादृशविशिष्टान्तरेण ववभाववद्दादिना घटितत्वादिति वाच्यं । प्रमेयत्वं श्रवृत्ति प्रमेयत्वादित्यादाववृत्तित्वाभाववद्वृत्तिप्रमेयत्वादिरूपे व्यभिचारेऽव्याप्तिः तस्य वृत्तिप्रमेयत्वरूपबाधघटितत्वादिति चेत् । न । खानिरूपित विशिष्ट विशेष्यकत्वानवच्छेद्यत्वेन प्रतिबन्धकताविशेषणत् स्वपदं लच्यत्वाभिमतविशिष्टपरं प्रमेयत्वादिविशिष्टवाभाववद्दात्मकविशिष्टन्तु न तथा तद्विषयकत्वावच्छिन्न प्रतिबन्धकतायाः खानिरूपितेन केवलवाभावव दुष्ह द विशेष्यकत्वेनाप्यवच्छिखत्वात् स्वानिरूपित विशिष्टविशेष्यकत्वानवच्छिन्नत्वञ्च स्वानिरूपित विशिष्टविशेष्यकत्वानतिरिक्तवृत्तिकप्रतिबन्धकताभिन्नत्वं (२) । न चैवं प्रतियोगिव्यधिकरणत्ववि
ܘ
(१) बाधग्रन्थे गन्धप्रागभावकालीन घटोगन्धवान् एथिवीत्वादित्युदाहरयान्वेषणेनेति भावः ।
(२) यथा वनान्तरं परित्यज्य अशोकवने सौतायाः स्थापने क्षत्यभावः तथेहापीति भावः ।
(३) ननु स्वानिरूपित विशिष्ट विषयकत्वसामान्यं यत्प्रतिबन्धकतावच्छे