________________
हेत्वभासाः।
मधिवचितं बाधादिज्ञानस्य लिङ्गाविषयकत्वात् व्यर्थत्वाञ्च(५) । 'अनुमितिपदश्च माध्यव्याप्यहेतुमान् पक्षः साध्यवान् इत्यनुमितिपरं, अन्यथोक्तरूपेण व्यभिचारादावव्याप्तिः । तथाच यविषयकत्वेन ज्ञानस्य धूमव्याप्यवहिमान् पर्वतो धूमवान् इत्यनुमितिप्रतिबन्धकत्वं स पर्वतवरूपेण पक्षतायां धमत्वरूपेण माध्यतायां वहिवरूपेण हेतुतायां दोष इति प्रातिखिकरूपेणैव लक्षणं अन्यथा माध्यादेरननुगमेन एकतरोपादानेऽन्यचाव्याप्यापत्तेः पर्वतोवहिमान् धूमादित्यादावपि पर्वतादौ काञ्चनमयत्वाभावादेदोषत्वापत्तेश्चर) तज्ज्ञानस्यापि काञ्चनमयः पर्वतो वहिमान् धूमादित्यनुमितिप्रतिबन्धकत्वात् । नन्विदमपि पक्ष-माध्यादावतिव्याप्तं तस्थाप्यवच्छेदककोटिप्रविष्टत्वात् । न च यत् विषयतासम्बन्धेनानुमितिप्रतिबन्धकतावच्छेदकतायाः पर्याप्यधिकरणं तत्त्वमर्थ इति
(१) ननु ज्ञानां अनाहार्यत्व-निश्चयत्वनिवेशापेक्षया लिङ्गत्वनिवेशे लाघवं लिङ्गाज्ञामं लिङ्गज्ञानमिति व्युत्पत्या लिङ्गज्ञानपदस्य अनुमितिपरत्वात्। न च नैयायिकमते लिङ्गज न्यत्वाप्रसिद्धिः लिङ्गज्ञानस्यैवानुमितिजनकत्वादिति वाच्यं। लिङ्गादित्यत्र पञ्चम्यर्थः प्रयोज्यत्वं तेन लिङ्गप्रयोज्य ज्ञानलाभः तच्चानुमित्यात्मकमेव, प्रयोज्यत्वञ्च वज्ञानजन्यत्वं इति चेत्, न, लिङ्गज्ञानपदेन लिङ्गज्ञानजन्यज्ञानं नोच्यते इत्यनुभवात् लिकत्वमविवक्षितमित्युक्तं । यद्दा लिङ्गज्ञानपदम्यानुमितिपरत्वे यद्दोषविशेघस्यानुमितिः कदाचिदपि न जाता तत्राव्याप्तिः अतः लिएरत्यनिवेशे लाधवमकिञ्चित्करमिति ध्येयम्।
(२) यत्त्व-तत्त्वयोरिव यत्किञ्चित्त्वस्याप्यनुगतत्वमित्यभिप्रायेण यत्किञ्चिस्पक्षक-यत्किञ्चित्माध्यकानुमित्यभिधाने दोघमाह, पर्वतेत्यादि ।