________________
हेवाभासाः।
तवानुमितिकारणीभूतभावप्रतियोगियथार्थवानविषयत्वं, यहिषयत्वेन लिङ्गमानस्यानुमितिप्रतिबन्ध
णानन्तरमित्यर्थः, ‘हेत्वाभासाः' आभासौभूता हेतवो दुष्ट हेतवइति यावत्, हेत्वदाभासन्त इति व्युत्पत्तेः, न तु हेतोराभामादोषविशेषाः 'ते चेत्यादिना हेतुविभागानुपपत्तेः । निरूपणप्रयोजनं दर्शयति, 'तत्त्वनिर्णयेति, अवास्तवकोटिनिचायकहेतौ दुष्टत्वज्ञाने वास्तवकोटिनिश्चयो भवतीति तत्त्वनिर्णयप्रयोजकत्वमिति भावः । स्वार्थ-वादयोरक्का जल्प-वितण्डयोराह,(९) “विजयेति, तदिदंर) उद्भावनद्वारा, परोक्तहेतौ दुष्टत्वोद्भावने तस्य निग्रहादिति भावः । एवञ्च तत्त्वनिर्णयादिलक्षणेककार्यानुकूलत्वमपि प्रकृते मङ्गतिः सम्भवति, यथा हि खोयसन्यायप्रयोगे तत्त्वनिर्णयोविजयश्च तथा परकीयहेतौ दुष्टत्वोभावनेऽपि तत्त्वनिर्णयोविजयश्चेति बोध्यं । हेत्वाभासरूपदोषवत्त्वं दुष्टत्वमिति दुष्टहेतुलक्षणं स्फुटमेवेति तदुपेक्ष्य तद्घटकमेव दोषं लक्षयति, 'तत्रेति, 'तत्र' निरूपणे, इदं हेवाभामत्वं हेतुदोषत्वमित्यन्वयि,
(१) खमतव्यवस्थापनं खार्थः, तत्त्वबुभुत्मोः कथा वादः, वालवकोटिकनिश्चयपूर्वकपरमसनिराकरणं जल्पः, परमतनिराकरणमत्रं वितहा बतरवोक्तं ।
"खपक्षस्थापनाहीना विजिगीषोः कथा तु या।
सा वितण्डेति विज्ञेया वादिनिग्रहकारियो" इति । (२) तस्य विजयप्रयोजकत्वमर्थः ।