________________
अथ हेत्वाभासनिरूपणं।
अथ हेत्वाभासास्तत्वनिर्णय-विजयप्रयोजकत्वान्निरूप्यन्ते।
अथ हेत्वाभामरहस्यं । न्याय-तदवयवान् निरूप्य प्रसङ्गसङ्गत्या हेत्वाभास(९) निरूपयितुं शिष्याबधानाय प्रतिजानौते,(२) 'अथेति न्याय-तदवयवयोनिरूप
(१) प्याप्ति-पक्षधमताविरहविशिटहेतुमित्यर्थः । (२) पत्र वर्तमानकालाव्यवहितोत्तरकालकर्त्तव्यत्वप्रकारकबोधानुकूलव्यापारः प्रतिज्ञापदार्थः, “अथ हेत्वाभासास्तत्त्वनिर्णय-विजयप्रयोगकत्वा मिरुप्यन्ते" इति मूलमेव प्रतिज्ञा तत्र निरूप्यन्त इत्यत्र वर्तमानसामी प्यार्थकलट्प्रत्ययस्य वर्तमानकालाव्यवहितोत्तरकालीनत्वमर्थः, तस्य च निरूपणपदार्थोऽन्वयः, तथाच वर्तमानाकालाव्यवहितोत्तरकालीनं तत्त्वनिर्णय-विजयप्रयोजकत्वज्ञानजन्य जिज्ञासाधीनं यनिरूपणं तद्दिषयतावन्तः हेत्वाभासाः इति समुदितवाक्यअन्यशाब्दबोधः, तत्त्वनिर्णय-विजयप्रयोजकत्वादिन्यत्र तज्ज्ञानजन्यजिज्ञासाधीनत्वं पञ्चम्पर्थः, निरूप्यन्त इत्यत्र कर्मवाच्यलट्प्रत्ययस्य विषयत्वरूपं कर्मत्वमर्थः, शिष्यसमवेत ज्ञानानु. कूलव्यापारोधात्वर्थः, शिष्यसमवेतज्ञान विषयतापन्नेषु हेत्वाभासेषु याचितमण्डनन्यायेन तादृशज्ञानानुकूलव्यापारविषयतान्वयः । केषाञ्चित् छन्तेवासिना के हेत्वाभासा इति जिज्ञासया केषाञ्चिच्च के तत्त्वनिर्णय विजयप्रयोगका इति जिज्ञासया हेत्वाभासनिरूपणात् हेत्वाभासत्वरूपप्रसङ्गस्य तत्त्वनिर्णय-विजयरूयैककार्यकारित्वरूपैककार्यानुकूलत्वस्य च अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वात् अब सङ्गतित्वमिति विभावनौयं ।