________________
चिन्तामय
बोधनीय इति चेत् । न । यदवगमे सति यन्न भवति तत्तदभावज्ञान साध्यमिति व्याप्तेः । न चानन्वयः, तस्मादित्यन्वयबला देव हेत्वनाकाङ्क्षितत्वलक्षणसिद्धत्वज्ञानात् न त्वन्वयात् प्राक् । इह केचित् यथा तस्मादिति सर्व्व
भावज्ञानं हेतुः तच्च निगमनसाध्यं सिद्यनात्मकमिति वाच्यं । तस्य कारणत्वे मानाभावात् स्वीयस्थले व्यभिचाराच इति चेत् । न । यदबगमे चश्च भवति तत्तदभावज्ञाने सत्येव सम्भवतीति प्रयोक्तृतात्पर्य्यात्, तथाच यज्ज्ञानं यत्प्रतिबन्धकं तदभावज्ञाने तज्ज्ञानप्रतिरोधेन तदवश्यं भवतीति तस्य कारणले मानाभावात्, निगमनादेव बाधविरहो यदा बोध्यते तदा प्रतिबन्धकबाधज्ञानाभावे श्रनुमितिरविकलेव स्यात् इति इत्थञ्च बाधज्ञानप्रतिबन्धकद्वारा बाधाभावज्ञानस्य प्रयोजकत्वं न तस्य कारणत्वं श्रये च साध्यमित्यस्य प्रयोज्यत्वमर्थे बोध्य इति रमणीयं ( १ ) उमाबाधितत्वज्ञानमन्वयव्यतिरेकाभ्यां स्वार्थातिरिक्रस्यले हेतुस्तच्च विगमनाद्भवतीति यथाश्रुतग्रन्थ एव साधुरित्यपि कचित् । तृतीयमाशङ्कते, 'न चेति हेतु जिज्ञासाविरोधिबोधविषयत्वरूपस्य सिद्धत्वस्यापदार्थत्वेन साध्यांशे तदन्वयायोग इत्यर्थः, उक्तरूपं सिद्धत्वं न निगमनेन बोध्यते किन्तु ततः साध्यस्याप्यादिविशिष्ट लिङ्गज्ञाप्यत्वप्रतीतौ तेनैव हेतुना प्रकृतबाध्यस्य निस्तसिद्धत्वमनुमीयते इत्याशयेन परिहरति, 'तस्मादि
(१) विभावनीयमिति ङ० ।