SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ "हेतावुक्त कथमस्य गमकत्वमित्याकाक्षायां व्याप्तिपक्षधर्मतयारूपदर्शनप्राप्ती व्याप्तेः प्राथम्यात् तत्पदशनायादाहरणं तथानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवनिष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वमुदाहरणत्वं। सापदसमभिव्याहारेणैव सप्तम्याः सामानाधिकरण्ये व्युत्पन्नवादित्यर्थः, 'अयं मामानाधिकरण्यरूपः, 'अस्मात्' मतम्याः मतिपदसमभिव्याहारात्। ननु व्याप्तेरिव पक्षधर्मताया अपि गमकतौपयिकत्वात् नत्प्रदर्शनाथ हेवृत्तरमुपनय एव कथं नोपन्यस्यते इत्यत आह, 'कथमस्थेति, 'अस्य' धूमादेः, 'गमकत्वं गमकतावच्छेदकत्वं, लिङ्गस्य हेतुतामते तु यथाश्रुतमेव व्यायः। 'अस्स' लिङ्गज्ञानस्येत्यर्थः, इति कचित्। 'प्राथम्यादिति परामर्थं प्रथमोपस्थाप्यत्वादित्यर्थः, परामर्भ प्लेिविशेषणतावच्छेदकतया पूर्वोपस्थितिनियमः पक्षधर्मतायास्तु वैशिष्यरूपतया न विशेषणतावच्छेदकत्वमिति न तदुपस्थितिः प्रागपेक्षणैयेत्यभिप्रायः । यत्तु 'प्राथम्यादिति प्रथमाकाङ्क्षाविषयत्वादित्यर्थः, प्रतीतच्याप्तिकोहेतुः पचे वर्तते न वेत्याकाङ्गादर्शनादिति व्याख्यानं, तब सम्यक्, युक्त्यनभिधाने व्याप्याकाङ्गायाः प्राथम्ये मानाभावात्। वस्तुतः 'कथमस्थ गमकत्वमित्याकाङ्गायाः किंप्रकारावच्छित्रस्य गमकालमित्यर्थः, इति तादृशाकाङ्क्षायां प्रथमतः पक्षधर्मताप्रदर्शनस्य प्रमतिरेव नास्तौति ध्येयम्। तत्प्रदर्शनायेति व्याप्तिप्रदर्शनायेत्यर्थः,
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy