________________
तत्वचिन्तामण
हेतुलक्षणं, कथायां धूमादित्येव प्रयोक्तव्यं न तु धूमवाचादिति मतुपोव्यर्थत्वात्।
सामान्यवक्त्वे सति वाधकरणप्रत्यक्षवादित्यपार्थकं विभक्त्युपस्थापितहेतुत्वेन सामान्यवत्त्वस्य
त्यादि प्रतीतः माध्यान्वयोऽन्वयसहचारमात्रं यत्र तादृशं यत्साधनं तबावचकशब्दाद्या हेतुविभक्तिः पक्षधर्मिकखार्थविशिष्टमाध्यवत्त्वबोधस्य हेतुभूता या विभक्तिस्तद्वत्त्वमित्यर्थः, 'प्रतीतान्वयसाध्य-साधनेति पाठेऽपि माध्यपदस्थ व्यत्यासेन उक एवार्थः ।
केचित्तु वहिसामग्रीमत्त्वादित्यादिहेतुसंग्रहाय 'मायाविषयकेति माध्यविषयकवनियतावयवतावच्छेदकरूपशून्यार्थक, तथाच उदाहरणत्वावच्छिवस्थापि तथावादन्यय्युदाहरणवारणय 'हेतुविभनौति प्रागुरुहेतुत्वार्थकमित्याहुः ।।
'अप्रतौतेत्यादि, इदमुपलक्षणं एतदेव प्रतीतसाध्य-तदभावसहचारकेति() विशेषणदषय-यतिरेकिहेतुलक्षणमित्यपि बोथं । मनु प्रतिज्ञादिश्यवयववादिनां मौमांसकानां मते धूमहेतस्थले तस्य पक्षधर्मताप्रतिपत्त्यर्थं घूमत्त्वादिति कथञ्चिन्मतुपोऽस्तु प्रयोजन पञ्चावयववादिनान्तु तार्किकाणां उपनयादेव हेतोः पक्षधर्मताप्रतिपत्तिसम्भवान्मत्तुपोव्यर्थत्वमित्यत्र इष्टापत्तिमाह, 'कथायामिति, एतेन भ्रमसम्बन्धपर्यवसनत्वेन तस्य धूमवत्त्वस्य हेतुतायां न वैयर्थं धूमत्वस्य
(१) प्रतीतोभयसहचारकेतीति घ०।