________________
७३६
तत्त्वचिन्तामणी
'यहा पक्ष-सपक्षसतो विपक्षासतो हेतुवचनमन्वयव्यतिरेकि,' अत्यन्ताभावाप्रतियोगिसाध्यसमानाधिकरणपक्ष-सपक्षसहेतुवचनं केवलान्वयि ।
द्वारणय च 'हेतुत्वप्रतिपादकेत्यादि स्वार्थहेतुत्वमुख्यविशेष्यकान्वयबोधजनकविभक्रिमन्नायावयत्रत्वमित्यर्थः, 'अन्वयिहेतुत्वमिति अन्वयिहेत्ववयवत्वमित्यर्थः । 'एतदेव' स्वार्थत्याद्यवयवत्वमेव, 'तथाभूतावयवत्वं' निरुक्तहेत्ववयवत्वं, तावन्मात्रञ्च केवलान्वयिनः केवलव्यतिरेकिणश्च हेतोर्गतमतः ‘प्रयोजकान्तं प्रकृतहेतुकप्रकृतसाध्यमियौपयिकान्वय-व्यतिरेकोभयव्याप्यभिधाननिवाकाङ्क्षाकारणीभूतज्ञानजनकार्थकं, तथेत्यादिपदव्यावृत्तिः पूर्ववत् ।
ननु कथमस्य गमकत्वमित्याकाङ्क्षायां एकव्याप्यभिधानेनैव निरस्तत्वात् व्याप्यन्तराभिधानस्यार्थान्तरयस्तत्वमतोनोक्नक्रमेणान्वययतिरेकिहेतोर्लक्षणं युक्तमत शाह, 'यति। मद्धेतोरेव लक्ष्यत्वमित्यभिप्रायेणाह, 'यदेतीत्यन्ये । 'हेतुवचनं' प्रकृतहेतुत्वप्रतिपादकोऽवयवः, तथाच पक्षे सपक्षे च मतो विपक्षेऽसतोऽर्थस्य हेतुत्वप्रतिपादकोऽवयवः अवयव्यतिरेकीत्यर्थः, अत्र च सपक्षसत्त्वं निश्चितसाध्यवद्वृत्तित्वं, तेन पृथिवौतरेभ्योभिद्यते पृथिवीलादित्यादौ केवलव्यतिरेकिहेतौ नातिव्याप्तिः, पक्षमत्त्वन्तु पर्वतो वजिमान् महानमत्वादित्यादौ स्वरूपासिद्धस्य हेतोयुदासाथ, सद्धेतोरेव लक्ष्यत्वादिति ध्येयं । नन्वेवं वहिसाध्यकधूमादिहेतोरन्वयव्यतिरेकित्वे तच प्रागुक्रकेवलान्चयिहेतुलक्षणस्यातिव्याप्तिरतस्तस्य लक्षणान्तरमाइ,