________________
पवयवः।
०३५
ज्ञानस्यानुमितिजनकत्वं वाक्यविशेषजन्यत्वस्यापि अ-. न्यतावच्छेदकरूपापरिचये दुर्ग्रहादित्यपरे ।
अन्वयव्यात्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्यायावयवत्वमन्वयि हेतुत्वं, एतदेव व्यतिरेकव्याप्त्यभिधायकपदप्रक्षे पादव्यतिरेकि हेतुत्वम्। अन्वयव्यतिरेकोदाहरणाकाङ्क्षाप्रयोजकतथाभूतावयवत्वमन्वयव्यतिरेकि हेतुत्वं ।
विनेति हेतुजन्यबुद्धौ वैजायं विना केन रूपेण परार्थानुमितिजनकत्वमित्यर्थः, तथाच कारणान्तदलमव्यावर्त्तकमेवेति भावः । मनु कारणान्तं प्रकृतन्यायावयवार्थक धूमवत्त्वादित्यादिशब्दान्वयि तथाच धूमवत्त्वादित्यानुपूर्वीकावयवजन्यज्ञानवृत्तीत्येव जाते विशेषणं वाच्यम् न तु कारणान्तगर्भं श्रत पाह, 'वाक्यविशेषजन्यत्वस्यापोति धूमवत्त्वादित्यानुपूर्वोकावयवजन्यत्वस्या पौत्यर्थः, तथाच कवादिना मायेण तादृशवाक्यवृत्तिजात्यभावेन तदवच्छिन्नजनकतानिरूपिनजन्यतावच्छेदकजातावपि मानाभावेन लक्षणस्यामम्भव इति भावः ।
हेतुत्वस्यान्वयि-व्यतिरेक्यन्वयव्यतिरेकि भेदेन वैविध्यात् तदनुको न्यूनत्वमत आह, 'अन्वयेत्यादि, व्यतिरेकि हेतोर्वारणाय ‘जनकान्त प्रकृतहेतुधर्मिकमाध्यान्वयव्याप्यभिधायकवाक्यप्रयोजकशाब्दधौप्रयोजकार्थकं, उपनयप्रयोजकज्ञानजनके उदाहरणे प्रतिज्ञायाश्चातिव्याप्तिवारणाय उदाहरणन्तमात्रस्याभिधानस्थले हेतोरलक्ष्यत्वान