________________
व्यवयवः।
७२.
हेतुत्वप्रतिपादकविभक्तिमच्यायावयवत्वं वा।
तस्मात् धूमादितिनिगमनेऽतिव्याप्तिः तस्यापि विभक्त्यर्थज्ञानज्ञाण्यवरूपहेतृत्वमुख्यविशेष्यकान्वयबोधजनकत्वादिति वाच्यम् । कथकसम्प्रदायविरोधेन वहिधूमादित्यस्य प्रतिज्ञात्वाभावात् तादृशपञ्चकस्य न्यायत्वाभावेन विशेष्यदलेनैव तद्वारणात् ।।
ननु हेतुत्वं प्रमेयमित्यादिप्रतिज्ञायामतिव्याप्तिर्वारा हेतुत्वपदोपस्थायज्ञानज्ञाप्यत्वस्य विभक्त्यर्थज्ञानज्ञाप्यत्वाभिन्नत्वात् । न र विभक्तिजन्योपस्थितिमहकारेणैव हेतुत्वविशेष्यकशाब्दबोधजनकत्वं वाच्यमिति न दोषः तस्य हेतुत्वपदजन्योपस्थितिसहकारेणैव तादृशबोधजनकत्वादिति वाचं । तथापि तस्माद्धेतत्वमिति निगमनेऽतिव्याप्तिः पञ्चमौजन्योपस्थितिसहकारेणैव हेतुत्वविशेष्यकशाब्दबोधजनकत्वात्। न च हेतुत्वमुख्य विशेष्यकत्वांशे विभक्रिजन्योपस्थितेः सहकारित्वं वाच्यम् इति न दोषः तत्र हेतुत्वमुख्यविशेष्यकत्वांशे हेतुत्वपदजन्योपस्थितेरेव सहकारित्वादिति वाच्यं । मुख्य विशेष्यकत्वस्य कार्य्यतानवच्छेदकतया तदंशे सहकारित्वस्य दुर्चचत्वात् इत्यतोलक्षणन्तरमाह, ‘उदाहरणेति(१) उदाहरणस्य प्रयोजिका था
(१) 'उदाहरणेति उदाहरणस्य प्रकृतहेतुक-प्रकृतसाध्यसियौपयिकव्यानिधौजनकवाक्यस्य प्रयोजिका तज्जन्यबोधनिवृत्तये कथमस्य गमकत्वमित्याकाङ्गा तज्जनकं तज्जनकावयवत्वमित्यर्थः, अत्र जनकत्वं स्वरूपयोग्यत्वं तेनासाधकतानुमानस्थलीयन्याये उदाहरणासत्वेऽपि न क्षतिरिति खरूपयोग्यतावच्छेदकरूपस्य हेतुत्वस्य तत्रापि सत्त्वादिति, अनुक्तोपनयादिकस्य उदा. हरणस्य प्रयोजकहेतुवाक्येऽतिव्याप्तिवारणार्थमवयवेति । इति जागदीशी
व्याख्या।