________________
थातिवादः।
वृत्तित्वच हेतुतावच्छेदकसम्बन्धेन हेतुताव छेदकावच्छिवसमानाधिकरणव-व्यधिकरणधर्मावच्छिन्नाभावशक्रिभित्रलोभयाभाववत्त्वं तेन न तद्दोषतादवस्य। द्रव्यं मंयोगादित्याद्यव्याप्यत्तिहेतुके द्रव्यमानसमवेताभाव-गुण-कर्माद्यवृत्त्यभावादेरन्ततः सर्वत्र विशेषणताविशेषण माध्यप्रकारकप्रमाविशेष्यत्व-साधनान्यतराभावादेश्च तादृशस्य सुख भत्वाचाव्याप्तिः। इदं वाचं प्रमेयादित्यादौ घटत्वेन पटाभाव-परवेन घटाभावादिमादाय प्रमेयमात्रस्यैव तादृशाभावप्रतियोगिताबाव्याप्तिः। न च विशिष्टाभावादिवारणय तद्वनिष्ठतत्मजातीयाभावनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकहेततावच्छेदकवत्त्वमेव विवक्ष्यतां किं यथोक्तव्याप्यवृत्तित्वेनाभावविशेषणेन इदं वाच्य ज्ञेयत्वादिकेवलान्वयिहेतुके च ज्ञेयत्वत्वादिना घटाद्यभावमादायैव लक्षणसम्भवादिति वाच्य। पृथिवी संयोगादित्याद्यव्यायत्तिहेतुके व्यभिचारिण्यतिव्यापतेः इदं वाचं प्रमेयादित्यादौ तादृभाभावाप्रसिद्धेश्व। एवं द्रव्यं सत्त्वादित्यादौ व्यभिचारनिरूपकतत्तदधिकरणावृत्तिसामान्याभावस्था पि सजातीयोऽभावः सत्तावादिना सत्ताधभाव एव तत्प्रतियोगित्वस्य मत्त्वादौ मत्त्वादतिव्याप्तितादवस्थ्यं अतस्तदनिष्ठेति। न च तथापि धूमवान् वहेरित्यादौ तादृशोभयाभाववदभावोधूमवादिना धूमाघभाव एव तदति जलदादौ समजातीयस्य वड्यभावस्य सत्त्वादेवं तादृशाभावोद्रव्यत्वत्वादिना धूमाघभावः तदति यावत्येव तत्सृजातीयस्थ घद्यादेधिकरणधर्मावच्छिन्नाभावस्य सत्त्वाचातिव्याप्तिरिति वाच्यम् । यावत्वेन प्रथमाभावविशेषणात्, तथाच तत्तदयोगोलकादिरूपव्यभिचारस्थलावृत्त्य