________________
७९.
तत्त्वचिन्तामणौ
विप्रतिपच्या प्रमाणादिव्यवस्थया चान्तरितत्वात् परविप्रतिपत्तिं समयबन्धच्च विना स्थापनाया अभावात् विप्रतिपत्तिवाक्यस्य पक्षपरिग्रहेण पर्यवसितत्वेन निराकाङ्गत्वाञ्च, आवृत्तौ तु सैव प्रतिज्ञा। न चावयवान्तराहेत्वन्वययोग्या साध्योपस्थितिः, नाप्यवयवान्तरेणा
इदन्तु नैयायिकमते, मौमांसकमते तु श्रापोऽर्थापत्तिः, 'अवयवान्तरेणेत्यस्य च माध्यन्वितस्वार्थबोधकावयवजन्यजिज्ञासां विना अयमनुपपन्न इत्यनुपपत्तिज्ञानेनेत्यर्थः, एवञ्चावतारणिकापि तथैव करणीया इत्यपि बोध्यं, आशङ्कां खण्डयति, ‘माध्यान्वय इति उदाहरणदितः साध्योपस्थितावित्यर्थः, 'तदभिधानमिति हेतुवाक्यात् अन्वयबोधानन्तरं तदाकाहायामित्यादिः, 'तदभिधान' उदाहरणभिधानं, 'तदभिधाने चेति उदाहरणभिधाने चेत्यर्थः, द्वितीयशङ्कामुपसंहारव्याजेन खण्डयति, 'तस्मादिति, 'प्रतीत्यनुपपत्त्येति, ददन्तु मौमांसकमते, 'प्रतीतानुपपत्त्येति इदन्तु नैयायिकमते, मौमांसकमते हि स्वर्गकामो यजेत इत्यादौ यागे खर्गकामकृतिमाध्यतान्वयबोधो हि दृष्टमाधनत्वरूपयोग्यताज्ञानादेव भवति, तच्चाशविनाशिनि यागे व्यापार विना न सम्भवतीति खर्गकामवतिमाध्यतान्वयानुपपत्त्या अपूर्व पाक्षिप्यते, नैयायिकमते तु वेदात् प्रतीते दृष्टसाधनत्वान्वयानुपपत्त्या अपूर्व प्राक्षिप्यते, अत्र चानुपपत्तिद्वयमेव नास्ति माध्यान्वितस्वार्थबोधकहेतुजन्यजिज्ञासां विना उदाहरणाद्युपन्यामासम्भवात् इत्याखण्डनार्थः ।