________________
घवयवः।
७९८
वाक्येऽनुपस्थितमपि योग्यतया अन्वेति, अतिप्रसङ्गात् । न च विप्रतिपत्तितः साध्योपस्थितिः, तस्याः प्रतिवादि
वान्तारणेति व्याप्तिबोधकावयवत्वादिज्ञानेनेत्यर्थः, हतीयार्थीजन्यत्वं पाचेपान्वितं, 'पाक्षेपादिति, 'आक्षेपः' अनुमितिः, पञ्चम्यर्थोऽभेदः अस्य च प्रागतसाध्योपस्थितिरित्यनेनान्वयः, तथाच व्याप्तिबोधकावयवत्वादिज्ञानजन्यानुमित्यभिन्ना माध्योपस्थितिरित्यन्वयबोधः,
त्तिरुपपद्यते वस्तुतोऽप्रसिद्धसाध्यतिरेक्युदाहरणस्य साध्याबोधकतया उदाहरणोपस्थाप्यसाध्ये हेत्वन्वयः सर्वत्र न सम्भवतीति यतः प्रकारा. न्तरमाह, 'नायीति, 'अवयवान्तरेण' उपनयेन, खार्यान्वयानुपपत्त्या साध्यवत्तया पक्षस्य 'याक्षेपात्' अनुमानात्, हेवन्वययोग्यसाध्योपस्थितिरिति पूर्वेणान्वयः, प्रथमे दूषणभाह, 'साध्यान्वय इति हेतोः साध्ये अन्वये सति कथमस्य गमकत्वमित्याकालायां उदाहरणस्याभिधानं तदभिधाने च हेत्वन्वययोग्यसाध्यीपस्थितिरित्यन्योन्याश्रयादित्यर्थः, हितीये दोषमाह, 'तस्मादिति, तस्मादुपनयात्मकावयवान्तरात् पक्षस्य साध्यव्याप्यवत्वप्रतीतिः, यञ्च साध्यव्याप्यवत्वं प्रतीतं तदन्यथानुपपत्त्या पक्षस्य साध्यवत्त्वाक्षेपः, 'इह' हेतुप्रयोगप्राक्काले नास्त्येवेत्यर्थः, पक्षस्य साध्यवत्त्वं विनापि तद्याप्यवत्त्वप्रतीतेः सम्भवात् तदन्यथानुपपत्त्या पक्षस्य साध्यवत्त्वाक्षेपः सम्भवदुक्तिक एव नेत्यतः प्रतीतस्य साध्यव्याप्यवत्त्वस्यानुसरणं । वस्ततः पक्षे साध्यवत्त्वाक्षेपसम्भवेऽपि न तत्र हेत्वर्थान्वयः सम्भवन्यपदार्थत्वादिति ध्येयं।
अप्रसिद्धसाध्यव्यतिरेक्युदाहरणादेः साध्याबोधकतया उदाहरणोपस्थाप्यसाध्ये हेत्वन्धयः सर्वत्र न सम्भवतीत्यतोऽपि प्रतिज्ञा साधनाङ्गमिति कश्चित् । इति जागदीशी व्याख्या।