________________
७१०
तत्त्वचिन्तामणौ
त्वादेविशेष्यतयाऽन्वयि भविष्यति इत्याह, ‘स चेति, 'अतिप्रसङ्गादिति पदानुपस्थाप्यस्यान्वयबोधविशेष्यत्वे अतिप्रसङ्गादित्यर्थः । प्रायते, 'न चेति, निरस्थति, 'प्रतीति उक्त विप्रतिपत्तीवकोटावभावकोटावेव वा प्रमाणं नास्तीत्येवं प्रतिवादिनो विरुद्धविप्रतिपत्तिजनकोतयेत्यर्थः, निरुक्तविरुद्धोत. रनावश्यकत्वेऽप्याह, 'प्रमाणादिव्यवस्थया चेति प्रागुक्तसमयबन्धेन चेत्यर्थः, चन्तरितत्वादित्यत्र विप्रतिपत्तेरि तनुषज्यते, 'स्थापना' प्राथमिकन्यायप्रयोगः । ननु प्रतिवादिनोविरुद्धोक्तः समयबन्धस्य च स्थापनायामुपयोगित्वं निष्पमाणकमत याह, 'विप्रतिपत्तिवाक्यस्येति, पक्षम्य यः परिग्रहः साध्यवत्तया बोधनं, तेनैव ‘पर्यवसितत्वेन' जनितान्वयबोधत्वनेत्यर्थः, प्रत्यक्षस्येव शाब्दबोधस्यापि संशयत्वमभ्युपेत्येदं । ननु पक्षः साध्यवान्नवेत्यादिविप्रतिपत्त्येकदेशस्य पक्षः साध्यवानिति भागस्यैव पुनरावर्तनं कार्य मिति तदर्थ एव हेत्वर्थस्यान्वयो भवितेति विफलः प्रतिज्ञोपगमइत्यतभाइ, 'यावृत्ताविति विप्रतिपत्त्येकदेशम्य पुनरावर्त्तने वित्यर्थः, 'सैव' धात्तिरेव । यत्तु जनितान्वयबोधस्यापि पक्षः साध्यवानित्येवं विप्रतिपत्येकदेशस्य पुनः प्रतिसन्धानरूपायामारत्तो सत्यां हेत्वर्थस्यान्वयो भविता इत्याशजायामाइ, 'याहत्ताविति, 'सेवेति तादृशात्तिविषयीभूतपक्षः साध्यवानिति वाक्यमेव प्रतिज्ञापदेनोच्यते इत्यर्थः, तदयुक्तं, पक्षः साध्य वानित्येवंभागस्य प्रतिसन्धानेऽपि हेत्ववयवस्य तदानन्तर्यविरहेण तमन्तभाव्य प्रतिज्ञादिपञ्चकस्य क्रमिकोचितानुपूर्वीकत्वाभावेन सस्य प्रतिज्ञा. त्वासम्भवात् । वस्तुतो हेत्ववयवस्य प्रतिज्ञानन्तव्यं न प्रतिज्ञोत्तरोच्चरितत्वगर्भ किन्तु प्रतिज्ञोत्तरज्ञातत्वगर्भ अतः प्रतिसन्धानरूपायामेवावृत्तौ न क्षतिरिति ध्येयं ।
शाजाते, 'न चेति, 'अवयवान्तरात्' उदाहरणात् । ननु यो यो धूमनान् . स वक्रिमानित्येवंक्रमेण . हेवन्वययोग्यस्य वयादिसाध्यस्थोदाहरणादुप
स्थितावपि पक्षः कुतः साध्यवानित्याकाणायात्तथाविधहेत्वन्वयान निर.