________________
७१६
चेतं, न, विप्रतिपत्त्यग्रे हि समयबन्धानन्तरं शब्दानित्यत्वं साधयेति मध्यस्थस्य वादिनेावाकाङ्क्षायां शब्दा
चिन्तामयौ
'तच' शब्दानित्यत्वे, 'प्रमाणकाङ्क्षायां' कुत इति प्रयोगे, 'प्राथम्या - दिति प्रथममेव वमुचितत्वादित्यर्थः, 'समयबन्धेति कष्टकोङ्कारमहित एव न्यायप्रयोगः कार्य्यः उदाहरणे समयबन्धः कर्त्तव्यः तथा न कार्य्यं वा इत्यादिरूपेत्यर्थः, 'साध्यनिर्देशं विनेति पदजन्यसाध्योपस्थितिं विनेत्यर्थः, 'हेतुवाक्यमिति माध्यातिपञ्चम्यर्थम्वयबोधजनकमिति शेषः, 'निष्ठतियोगिकमिति पञ्चम्यर्थज्ञानज्ञाप्यलांगे निर्धतावच्छेदककबोधजननसमर्थं भवतीत्यर्थः । ननु चेतुवाकयेन माध्यानम्बितकृतकत्व विषयक ज्ञानजन्यज्ञानविषयत्वमित्याकारकशाब्दबोधजनने न किमपि बाधकमिति कथं तत्रासामर्थ्यमिति चेत् । न । साध्यानन्विततादृशाम्वयबोधजनने कुतोऽस्यानित्यत्वमित्याकाङ्क्षायाश्रनिवृत्तेः। ननु पदानुपस्थितमपि शाब्दबोधविषयो भविष्यतीत्यतश्रह, 'न चेति, 'वादिवाक्ये' वादिवाक्य जन्य शाब्दबोधे, 'अनुपस्थित - मपि' पदानुपस्थितमपौत्यर्थः, माध्यमिति शेषः, 'योग्यतया श्रबाधिततया, ''अन्वेति' शाब्दबोधविषयो भवति, 'श्रतिप्रसङ्गात् ' साध्यभिन्नाबाधितान्तरस्यापि शाब्दबोधविषयत्वप्रसङ्गात्, 'तस्याः' माध्योपस्थितेः, 'प्रतिवादिविप्रतिपत्त्या' प्रतिवादिविप्रतिपत्तिजन्योपस्थित्या, 'प्रामाणादिव्यवस्थयेति समयबन्धजन्यज्ञानेनेत्यर्थः, ‘अन्तरितत्वात्' नष्टत्वात् । ननु परविप्रतिपत्त्यादिरेव तत्र नास्ति मानाभावादित्यत श्रह, 'परेति, 'विप्रतिपत्तिवाक्यस्येति निराकाङ्क्ष
"