________________
अवयवः।
१५
. ननु प्रतिज्ञा न साधनाङ्ग विप्रतिपत्तेः पक्षपरिग्रहे तब प्रमाणाकालायां हेत्वभिधानस्य प्राथम्यादिति
'प्रतिज्ञा न साधनाङ्गमिति(९) प्रतिज्ञा न परार्थानुमाने प्रयोजकज्ञानजनकमित्यर्थः, तथाच न्यायप्रयोगे प्रतिज्ञाकरणं व्यर्थमिति भावः । 'पक्षपरिग्रहे' भब्दानित्यत्वादिकोटिपरिग्रहे सतीत्यर्थः,
(१) 'साधनाङ्गमिति साधनम्य न्यायस्याङ्ग घटकमित्यर्थः, साधनस्य पराानुमानस्याङ्गामुपयुक्तमिति वा । ननु पक्षस्य साध्यवत्त्वाग्रहे तत्र हेत्वाकाङ्गगविरहात् तदभिधानेऽर्थान्तरं स्यादित्यवश्यं प्रतिज्ञा कर्तव्येत्यतयाह, 'विप्रतिपत्तेरिति विप्रतिपत्तिवाक्यादेव, 'पक्षपरिग्रहे' साध्य वत्तया पक्षग्रह इत्यर्थः, 'तत्र' पक्षस्य साध्यवत्तायां ।
केचित्त 'प्रतिज्ञा न साधनाङ्गं साधन हेतुवाक्यं तेन सहेव वाक्यत्वापना प्रतिज्ञा नेत्यर्थः, पर्वतो वह्निमानिति प्रतिज्ञा ततः कुत इत्याकाथायां . धूमादिति प्रयोगः, प्रतिज्ञा-हेतुभ्यां विशियार्थबोधोजन्यत इति नेति पर्यावसितं, तथाच प्रतिज्ञा हेत्वोरेकवाक्यताविरहेण प्रतिज्ञादिपञ्च इत्या. दिन्याये यदुक्तं तम्यासम्भवेन न्यायल क्षणासम्भव इति भावः। यत्र प्रतिज्ञादिप्रयोगे प्रमाणाभावेन नेकवाक्यता इति व्यभिसन्धिः, अभिसन्धि प्रकाशयति, 'विप्रतिपत्तेरिति, पञ्चम्याः प्रयोज्यत्वमर्थः, स च परिग्रहेइन्वेति, विप्रतिपत्तिः शब्दोऽनित्यो न वेत्याकारिका, 'पक्षपरिग्रहः' मया शब्दानित्यत्वं साधनीयमित्यादिवाक्यरूपः, 'तत्र' प्राब्दानित्यत्वे, 'प्रमा णाकालायां' शब्दविशेष्यकानित्यत्वप्रकारकप्रमाकरणं वद इत्याकानगयामिति यावत्, तादृशाकामानिरासकप्रश्ने कृते 'हेत्यभिधानस्य' कृतकवादिप्रयोगस्य, 'प्राथम्यात्' प्रथमोपन्यासाईत्वात् इति साम्प्रदायमतामुसारेण व्याचक्रुः इति भागदीशी व्याख्या ।