________________
सत्त्वचिन्तामणौ वतीत्युक्तस्यानुसरणीयत्वात् । रतेन शब्दोऽनित्य इति लिङ्गिधीपरवाक्यजन्यज्ञानवृत्तिकृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तिजातियोगिज्ञानजनकवाक्यं प्रतिक्षेति निरस्तम्।
दिपरिग्रहः, ददमुपलक्षणं तस्य प्रत्येकपरिसमाप्तौ एकदेशे तादृशबुद्ध्यापत्तेः, समुदितपर्याप्तत्वे व्यासज्यवृत्तित्वेन जातिवासम्भवादित्यपि बोध्यं । 'अनुगतरूपमन्तरेणेति, 'सम्भवतीति, अस्वार्थस्तु प्रागेव व्याख्यातः, 'उनस्येति अस्मदुक्कलक्षणस्यैवेत्यर्थः। एतेनति अनुगतजनकतावच्छेदकरूपं विना तज्जनकत्व-तद्ग्रहयोरसम्भवेनेत्यर्थः, 'शब्दोऽनित्य इति, अत्र 'लिङ्गिधौपरेति स्वरूपकथनं, काक्यत्वं न्यायान्तर्गतत्वं,'कृतकवादित्यादौति, प्रादिपदात् योयः कृतकदत्युदाहरणादेः परिग्रहः, तथाच शब्दोऽनित्य एतादृशवाक्यजन्यज्ञानवृत्तिः सतो कृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तिर्या जातिस्तदाश्रयज्ञानजनकन्यायान्तर्गतत्वमित्यर्थः। यत्र स्थलविशेषे कण्ठकोद्धारसहित एव न्यायप्रयोगः कृतस्तत्र कण्ठकोद्धारवाक्ये कृतकवादित्यादिवाक्यजन्यज्ञानावृत्तिजातिविशेषशालिज्ञानजनकेऽतिव्याप्तिवारणय 'वृत्त्यन्तं, शब्दोनित्यतिवाक्यधौजन्यज्ञानवृत्तिसत्तावनामजनकवाक्ये चातिव्यानिवारणाय 'प्रवृत्त्यन्तं, समवायेन तदाश्रयतालाभाय जातिपदं, कालोपाधिव्यावृत्तजनकतालाभाय ज्ञानपदं, उदासीनवाक्येऽतिव्याप्तिवास्णय विशेष्यदलं,।