________________
५.
तत्वचिन्तामयी लिङ्गाविषयक-लिङ्गिविषयकवानजनकन्यायावय
व्यावृत्तिमाइ, 'तेनेति अन्यूनपददानेनेत्यर्थः, 'उदाहरणदिपदं उदाहरणस्यादिरिति समासेन धूमाइयवयवसमवेतद्र्व्यवान् पर्वतो वहिमान् धूमादित्यादिस्थलीयहेत्ववयवपरं ।
केचित्तु लिङ्गावियकपदव्यावृत्तिपरोऽयं ग्रन्थ इत्ययाः ।
अतिरिकपदस्य छलतोव्यावृत्तिमाछ, 'निगमनश्चेति, अन्यूना. मतिरिकविषयकशाब्दज्ञानजनक मदिति शेषः, 'न परामर्शहेतः' न न्यायावयव इत्यर्थः। ननु तस्य कुतो न तथाज्ञानजनकत्वं अत आह, 'अबाधितेति अबाधितत्वासत्प्रतिपक्षत्वज्ञानजनकत्वादित्यर्थः। ननु निगमनं नाबाधितत्वादिज्ञानजनक तस्यापदार्थत्वात्। न च लक्षणया तस्योपस्थितिरिति वाच्यम्। वादिवाक्ये वारसिकतया तस्या प्रभावादिति चेत् । न । अबाधितत्वासत्प्रतिपक्षितत्वज्ञानजनकत्वादित्यस्य अबाधितत्वासत्प्रतिपक्षत्वादिमानसज्ञानप्रयोजकस्य साध्यव्याप्तिविमिष्टपक्षधर्मताविभिष्टहेतज्ञानज्ञाप्यत्वस्य ज्ञानजनकत्वादित्यर्थत्वात्, तादृशाहेत जानज्ञाप्यत्वज्ञानस्य अबाधितत्वादिज्ञानप्रयोजकत्वं तादृपहेतज्ञानशाप्यत्वस्य अवाधितत्वादिव्याप्यतया ।
नव्यास्तु नास्ति बाधितवं पचनिष्ठात्यन्ताभावप्रतियोगित्वं यस्मादिति विग्रहेणबाधितत्वादिपदस्य व्याप्तिपक्षधर्मताविभिष्टोयो इतस्तज्ज्ञानज्ञाप्यत्वमर्थः, 'श्रमप्रतिपक्षितत्वं' असत्प्रतिपक्षवृत्तिधाव्याप्तिरूपः, तथाच तज्ज्ञानज्ञाप्यत्व-व्याप्युभयबोधजनकलादित्यर्थ इत्याः ।