________________
तत्वचिन्तामो
अन्यूनानतिरिक्तपदं विहाय लिङ्गाविषयकत्वं वा ज्ञानविशेषणं तेनोदाहरणादिव्युदासः, निगमनच 'लिङ्गाविषयकवमिति लिङ्गपदं व्याप्यपरं, भावार्थश्च विवक्षितः, व्याप्यत्वञ्च प्रकृतहेतुक-प्रकृतसाध्यकानुमितिगमकतोपथिकव्याप्यत्वं, यथाश्रुते पृथिवौतरेभ्योभिद्यते पृथिवीलादित्यत्र प्रतिज्ञायामव्याप्तेः, तथाच नव्यत्यासेन प्रकृतहेतुक-प्रकृतमाध्यकानुमित्यौपयिकव्याप्यत्वविषयकशाब्दबोधजनकाकासाशुण्यत्वमित्यर्थः, उदाहरणदौनां
निर्वशित्वादित्यादौ यो यो धूभवान् स वहिमानित्यादिव्यतिरेक्युदाहरणस्य निर्वहित्यादिरूपहेत्वविषयकत्वेऽपि नातिव्याप्तिः। न च घटाभावः पटशून्योऽभावत्वादित्यादिस्थनीयप्रतिज्ञाया अभावत्वविषयकवनियमात् तत्राव्याप्तिः प्रकृतपक्षधर्मिकप्रकृतसाध्यप्रकारितावहिर्भावेन यदभावत्वविषयकत्वं तच्छु न्यत्वस्य विवक्षितत्वात् । न च प्रकृतपक्षधर्मिकप्रकृतसाध्यप्रकारितावहि तविषयिताशून्यत्वमात्रस्य सम्यक्त्वेऽभावत्वप्रवेशाव्यर्थ इति वाच्यम् । अखण्डाभावघटकतया तस्याव्यर्थत्वादिति भावः । ननु तस्माद्दङ्गिमान् इति निगमनस्याप्यभावत्वाविषयकत्वात्तवातिव्याप्तिरित्यत पाह, 'निमगनश्चेति, 'न परामर्श हेतुः नाभावत्वाविषयक ज्ञानहेतुः, 'अबाधितत्वेति, प्रतिज्ञातः पक्षस्य साध्यवत्त्वसिद्धेः पुनस्तदभिधानस्याबाधितत्वादिबोधकत्वस्यावश्यकत्वात् सिद्धे सत्यारम्भोनियमायेत्यादिव्युत्पत्तेरिति भावः । वस्तुतोऽबाधितत्वादेनिगमनाप्रतिपाद्यत्वेऽपि ज्ञापकत्वरूपहेतुत्वस्याभावत्वगर्भजनकताघटितत्वेन हेतुतावाचिपञ्चमीगर्भनिगमनस्याभावत्वाविषयकज्ञानजनकत्वमेव दुर्लभं, अत एव पर्वतो वह्निमान् धमादित्यादौ हेत्ववयवेऽपि नातियाप्तिः, तस्यापि पक्षम्यर्थहेतुताघटकतयैवाभावत्वविषयकज्ञानजनकत्वनियमादिति ध्येयं।