________________
तत्त्वचिन्तामयौ
wion द्रव्यत्वावच्छिन साध्यकन्यायावयवत्वात् पर्वतत्वावच्छिमपचकद्रव्यव्याप्यधूमात्मक द्व्यसाध्यकानुमित्यन्यनामतिरिक्तविषयक शाब्दज्ञानजनकत्वाच्च तद्दाने च द्रव्यत्वावच्छिन्नसाध्यकानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकत्वाभावान्नातिव्याप्तिः, धूमादन्यवयवसमवेतद्रव्यवान् पर्वतो वह्निमान् धूमादित्यच हेत्ववयवे तादृशपर्वतला -
७०६
पर्व्वतो वह्निमान् धूमादित्यादिन्यायस्थले धूमादित्यादिहेत्ववयवेऽतिव्याप्त • मतः प्रकृतानु नित्यन्यून विषयकत्वमुक्त, तच्च प्रकृतपत्ते प्रकृतसाध्य वैशिष्याव - गाचित्वरूपं ग्राह्यं, धूमात् प्रमेयत्ववद्धेतुत्वं धूमीयं धूमादित्यादौ हेतुतामात्रएव प्रकृतसाध्य वैशिष्ट्यबोधकोहेतुर्न तु विशिष्ट हेतुत्वात्मके प्रकृतपक्षे, हेतुत्वं वाच्यत्वात् प्रमेयवृत्तिधर्म्मवत् वाच्यत्वादित्यादौ च प्रकृतपक्षे प्रकृत्यथंस्य वाच्यत्वस्यैव वैशिष्ट्यबोधकोहेतुर्न तु वाच्यत्वज्ञाप्यप्रमेयवृत्तिधम्मात्मकस्य प्रकृतसाध्यस्य इति तयोर्व्युदासः । न च पर्व्वतो वह्निमानित्यादौ वहिसाध्यकप्रतिज्ञायामव्याप्तिः नामार्थयोर्भेदेनान्वयबोधस्या व्युत्पन्नत्वेन तस्याः प साध्यप्रकारक बोधजनकत्वासम्भवादिति वाच्यं । समानविभक्तिकमनुवादिसमभिव्याहारवशेन नामार्थयोरपि भेदेनान्वयस्य प्राचीनैः स्वीकृतत्वादेव तत्सम्भवादिति प्रतिज्ञासहकारेण हेत्ववयवस्य उपनयस्थायमादिपदसहकारेण निगमनस्य च निरक्तानुमित्यन्यून विषयकत्वात् तत्रातिव्याप्तिवारमार्थमनतिरिक्तविषयकत्वमुक्तं । न च सव्र्व्वं प्रमेयं वाच्चत्वादित्यादौ प्रकृतानुमितिविषयातिरिक्ताप्रसिद्धि:, प्रहृतपक्षधर्मिक प्रकृतसाध्यावगाहितानन्तर्गंतविघताशून्यत्वस्य विवक्षितत्वात् । न चैवमपि रमाधवः पूज्योदेवत्वादित्यादौ माधवः पूज्य इत्याकारक प्रति जैकदेशेऽतिव्याप्तिः तस्यापि निरक्तसत्यंन्तार्थवत्त्वात्प्रकृतानुमित्यन्यूनानतिरिक्तविषयक शाब्दधी जनकत्वाचेति वाच्यम् । स्वघटितवाक्याप्रतिपाद्य स्वार्थकत्वरूप महावाक्यत्व परेण चरमवावकपदेनैव तस्य वारितत्वादिति भावः इति जागदोशी व्याख्या ।