________________
तत्त्वचिन्तामणी
अनुमितिचरमकारणलिङ्गपरामर्शमयोजकशाब्दभानजनकशाब्दज्ञानजनकवाक्यत्वमवयवत्वम्, अतरव वहिव्याप्यधूमवांनयमितिवाक्ये तदवयवे च न न्यायतदवयवलक्षणातिव्याप्तिः तेन परामर्शस्य तदवयवेन परामर्शजनकस्य जननात्।
यत्त संक्षेपतः परामर्शप्रयोजकवाक्यत्वेन विशेषा'अनुमितिचरमकारणेति, न्यायेऽतिव्याप्तिवारणाय तादृशशाब्दज्ञानजनकेत्युक्तं, वहिव्याप्यधूमवानयमितिवाक्यैकदेशेऽतिव्याप्तिवारणय चरमत्वं परामर्शविशेषणं, अर्थस्तु पूर्ववत्, पूर्वोक्तकण्टको
'तद्वौति तादृशशाब्दधौत्यर्थः, विजातोयं विलक्षणेकजातिविशिएं, 'तक्षणं' अवयवलक्षणं, कचित्तु मूले 'तत्तद्धीजनकत्वमेव तल्लक्षणमिति पाठः, स च विजातीयज्ञानजनकत्वं प्रतिज्ञात्वं, वहिलक्षणज्ञानजनकत्वं हेतुत्वमित्येवं क्रमेण व्याख्येयत्वे प्रतिज्ञादिग्रन्थे तादृशतल्लक्षणस्याये प्रशितत्वेन पुनरक्तिभिया प्रामादिक इवि ध्येयं । 'दुनिरूपमिति कार्यमात्रत्तिजातेरनुगतानतिप्रसक्तधर्मावच्छिमकारणप्रयोज्यत्वनियमादिति भावः । 'तस्यैवेत्येवकारोभिन्नक्रमे तेन 'तत्खौकारे एव' प्रतिज्ञादावनुगतधर्मखीकार एव, 'तस्य' विजातीयधौजनकवाक्यत्वस्य लक्षणत्वसम्भवादित्यर्थः, तथाच वैजात्यासत्त्वात्तदर्भगक्षणस्यासम्भवादिति भावः। ननु विनाप्यनुगतानतिप्रसक्तधावच्छिन्न कारणं कार्यगतवैनात्यसत्त्वे कोदोष इत्यतचाइ, 'बन्यथेति धनुगतकारणं विनापि कार्यगतवैजात्योपगमे घट-पटादिधिचतुरेवप्येकवेजात्यसिद्ध्या तेन समं घटत्व-पटत्वादेः सकरप्रसङ्ग इत्यर्थः, तथाविधवैजात्ये प्रमाणविरहस्तु प्रकृतेऽपि समान इति भावः इति जायदोशी व्याख्या।