________________
तत्वचिन्तामणौ
व्याप्ति-पक्षधर्मतीपस्थापकतथा(१) उदाहरणोपनययोरेवानमितिपरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वं पर्यवस्थति, तदा अवयवान्तरेऽव्याप्तिः, यदि च परामर्थविषयौभतयत्किञ्चित्पदार्थमात्रविषयकतामात्रेण तदा वहिव्याप्यधूमवान् पर्वत इत्युदामौनवाक्यादावतिव्याप्तिः। न च न्यायजन्यज्ञानस्य तादृशशाब्दत्वेन तादृशपरामर्श प्रति खातन्त्र्येण हेतुत्वमिति वाच्यम् । मानाभावादिति चेत्। न। शाब्दज्ञानान्तेन बौहिणा विरुद्धवानुपूर्वी कभिन्नस्य तत्पक्षक-तत्माध्यक-तद्धेतकप्रतिज्ञादिपञ्चकसमुदायत्वमुक्त एवम्भूतं जनकौभूतं वाक्यं तत् इत्यत्र तात्पर्य्यात्। न चैवमपि हेत्वाभासतालिङ्गकामाधकतामाधकन्यायेऽव्याप्तिः तत्र व्याप्तेरुभयवादिसिद्भुत- . या उदाहरणभावेन तादृशपञ्चकत्वाभावादिति वाच्यम् । खकव्यतानिवाहार्थं तत्राप्युदाहरणप्रयोगादित्यलमधिकेनेति(२) ।
(१) व्याप्ति-पक्षधर्माताविषयकतयेत्यर्थः । (२) 'धनुमितीति अत्राप्यनुमितिपदं यादृश-यादृशानुपूर्ववच्छिन्ने प्रकतपक्ष-प्रकृतसाध्यादिन्यायव्यवहारः प्रामाणिकः तादृश-तादृशानुपूर्व्यवछिन्नाभावकूटसाध्यकानुमितिपरं, तथाच तादृशानुमितेश्वरमकारणीभूतो यः तादृशानुपूर्ववच्छिन्नाभावकूटव्याप्यवानयमित्याकारकः परामर्शः तस्य प्रयोजक तज्जनकव्याप्तिज्ञानस्य जनकं यच्छाब्दं शब्दप्रकारकं ज्ञानं तादृशतादृशानुपूर्तीमत्त्वावच्छिन्नाभाव इत्याकारकं ज्ञानं सज्जनकं विषयविधया जनकतावच्छेदककोटिप्रविर अथ च शाब्दबोधस्य जनक यहाक्यं तत्त्वमित्यर्थः, न्यायाप्रविष्ठस्य प्रतिज्ञादिसमानार्थकवाक्यस्य वारणाय प्रविष्टान्तं, न्यायनिविष्ठस्य प्रतिज्ञाद्यन्तर्गतपर्वत इत्यादिनिरर्थकभागस्य वारणाय शा